________________ 100 . काव्यमाला। चोपमेय उपमानवृत्तस्यासंभवात्प्रतिपादिता पूर्वैः वस्तुतस्तूपमेयवृत्तस्योपमानेऽसंभवादपि भवति / उभयत्रापि संबन्धविघटनस्य विद्यमानत्वात् / तद्यथा 'वियोगे गौडनारीणां यो गण्डतलपाण्डिमा / .. अलक्ष्यत स खजूरीमञ्जरीगर्भरेणुषु / ' अत्र गण्डतलं प्रकृतम् / तद्धर्मस्य पाण्डिनः खर्जूरीरेणुष्वसंभवादौपम्यप्रतीतिः। एष च प्रकारः शृङ्खलान्यायेनापि भवति / यथा 'मुण्डसिरे बोरफलं बोरोवरि बोर थिरं धरसि / विगुच्छाअइ अप्पा णालिअछेआ छलिजन्ति / ' - इयमपि कचिन्मालयापि भवन्ती दृश्यते / यथा 'अरण्यरुदितं कृतं शवशरीरमुद्रर्तितं | स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् / श्वपुच्छमवनामितं बधिरकर्णजापः कृतः धृतोऽन्धमुखदर्पणो यदबुधो जनः सेवितः // रोक्तोदाहरणेषु यथोपमानसंबन्धी धर्म उपमेयगतत्वेनैव संभवति तथैवोपमेयसंबन्धी धर्मः क्वचिदुपमानेऽपीत्याह-इयमित्यादि / उभयत्रेत्युपमेये उपमाने वा / वसन्तवर्णनस्य प्रक्रान्तत्वाइयोः प्रकृतत्वेऽपि गण्डतलस्योपमेयत्वम् / तद्गतत्वेनैव पाण्डिनः सिसाधयिषितत्वात् / सिद्धसाध्यधर्मत्वमेव चोपमानोपमेयत्वम् यथा वा-त्वद्वक्त्रलावण्यमिदं मृगाक्षि संलक्ष्यते पत्युरपि क्षपायाः। कथं त्वनेनाहृतमेतदद्य कलावतां वा किमसाध्यमस्ति // ' अत्र चाटुषु नायिकायाः 1. 'सामान्येनोपमानवृत्तस्योपमेयेऽसंभवात्' ख. 2. 'संबन्धन' क. 3. 'अहश्यत' ख. 4 मुण्डशिरसि बदरफलं बदरस्योपरि बदरं स्थिरं धारयसि / विडम्ब्यत आत्मा धूर्तच्छेकाश्छल्यन्ते // ' इति च्छाया / ख-पुस्तके 'मुंडभिदिवोरफलवरोकरीवलो अर्थिरंधरिसि / विगुश्चावसि अप्पाणालिआ छेआ छलिंगाति / ' इत्यत्यशुद्धं प्राकृतमस्ति.