SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अलंकारसर्वस्वम् / केचित्तु दृष्टान्तालंकारोऽयमित्याहुस्तदसत् / निरपेक्षयोर्वाक्यार्थयोर्हि बिम्बप्रतिबिम्बभावो दृष्टान्तः / यत्र च प्रकृते वाक्यार्थे वाक्यार्थान्तरमारोप्यते सामानाधिकरण्येन तत्र संबन्धानुपपत्तिमूला निदर्शनैव युक्ता, न दृष्टान्तः / एवं च 'शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य / दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः // ' इत्यत्र दृष्टान्तबुद्धिर्न कार्या / उक्तन्यायेन निदर्शनाप्राप्तेः / इयं निदर्शना यावत्तद्भेदोऽप्ययं द्विविध इत्यपिशब्दार्थः / उदाहृतेति 'अव्यात्स वः' इत्यादिना / केचिदिति श्रीमम्मटादयः / तदिति दृष्टान्तालंकारवचनम् / एतदन्यत्रापि योजयति-एवमित्यादिना / उक्तन्यायेनेति / प्रकृतवाक्यार्थे वाक्यार्थान्तरस्य समानाधिकरण्येनाध्यारोप्यमाणत्वात् / अतश्चान्यैर्वाक्यार्थयोः समानाधिकरण्यनिर्देशाच्छौतारोपसद्भावेन वाक्यार्थरूपकं यदुक्तं तत्तावदास्ताम् , यत्पुनः प्रतिवस्तूपमोदाहरणत्वमुक्तं तदयुक्तमेव / निरपेक्षयोर्वाक्यार्थयोर्धर्मस्य शुद्धसामान्यरूपत्वे प्रतिवस्तूपमा / न चात्रैकमपि संभवति / वाक्यार्थयोः सापेक्षत्वाच्छुद्धसामान्यरूपखाभावाच अर्थापत्त्युदाहरणत्वमप्यंत्रायुक्तम् / 'जाग्रतः कमलालक्ष्मी यज्जग्राह तदद्भुतम् / पादद्वन्द्वस्य मत्तेभगतिस्तेये तु का स्तुतिः // ' इत्यत्र तु प्रतिवस्तूपमोदाहरणत्वं पापात्पी(त्पापी ?)यः / अत्र हि वाक्यार्थयोः परस्परं सादृश्यमात्रमपि नास्तीति का कथा प्रतिवस्तूपमायाः। एवंविधमेव चान्यत्र सर्वालंकारोदाहरणेष्वासमञ्जस्यं संभवदपि समनन्तरोक्तहेतुद्वयान दर्शितम् / तथा च 'आज्ञाधरः पञ्चशरः पुरस्तात्सुधा पुनः कर्मकरी मुखस्य / स चापि सौन्दर्यविशेषबन्दी यत्रेन्दुरिन्दीवरलोचनानाम् // ' इत्यत्र विषयविषयिणो - योरप्युपादानात्स्फुटेऽपि रूपकत्वेऽतिशयोक्त्युदाहरणत्वमुक्तं तत्र चातिशयोक्तित्वमेव नास्तीति किं कार्यकारणभावपूर्वकत्वनिदर्शनेनेत्यलं बहुना। असंभवद्वस्तुसंबन्धनिबन्धनायाश्च यद्यपि वस्तुसंबन्धस्याविशेषेण संभव उक्तस्तथापि समनन्त 1. 'असामान्य' ख. 2. 'अन्यत्राप्युक्तम्' ख. 3. 'गतिः' ख. 4. 'पापोत्यापीयः' ख. 5. 'उपचारात्' क. 6. 'निर्मूलनेन' ख.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy