________________ - काव्यमाला। * अत्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगात्संभवति वस्तुसंबन्धः / असंभवद्वस्तुसंबन्धा यथा 'अव्यात्स वो यस्य निसर्गवक्रः स्पृशत्यधिज्यस्मरचापलीलाम् / जटापिनद्धोरगराजरत्नमरीचिलीढोभयकोटिरिन्दुः // - अत्र स्मरचापसंबन्धिन्या लीलाया वस्त्वन्तरभूतेनेन्दुना स्पर्शनमसंभवल्लीलासदृशीं लीलामवगमयतीत्यदूरविप्रकर्षात्प्रतिबिम्बकल्पनमुक्तम् / एषापि पदार्थवाक्यार्थवृत्तिमेदाद्विविधा / पदार्थवृत्तिः समनन्तरमुदाहृता / वाक्यार्थवृत्तिर्यथा 'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् / इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः / / ... . . . जात इत्येवमात्मिकायाः प्रतिपत्तेरभावात् / अतश्च सत्यसति वा संबन्धे निदर्शनेति वाच्यम् / तेन यथोक्तमेव भेदद्वयं स्यात् / असंभवदिति / धर्म्यन्तरसंबन्धिनो धर्मस्य धर्म्यन्तरेऽन्वयायोगात् / अदूरविप्रकर्षादिति / धर्ममुखेन सादृश्यस्य किंचित्प्रत्यासन्नत्वात् / यथा वा-'अङ्गे पुलअं अहरं सवे. पिअं जंपियं ससिक्कारं / सव्वं सिसिरेण कसं जं काअव्वं पिअअमेण // ' अत्र वल्लभकार्यस्य पुलकादेधर्मस्य वस्त्वन्तरभूतेन शिशिरेण करणमसंभवत्तस्य साम्यमवगमयतीति शिशिरस्य वल्लभतुल्यताप्रतीतेरौपम्यम् / अतश्चात्र धर्माणामसं. बंन्धाभावान्न निदर्शनेत्युक्त्वा प्रतिमालंकारत्वं न वाच्यम् / प्रतिमायाश्चान्योदाहन रणेष्वलंकारान्तरादियोगः स्फुट एवेति न पृथगलंकारत्वं वाच्यम् / एवमन्येषामपि समग्राणामभिनवालंकाराणां चान्यैरन्यालंकारयोगो योजयितुं शक्य एवेति ग्रन्थविस्तरभयादस्मद्दर्शने तदूषणोद्धारस्यैव च प्रतिज्ञातत्वादस्माभिः प्रेतिपद्येन (न) दूषितम् / न पुनरेतावतैव परमतमप्रतिषिद्धमनुमतमेवेति टेंशा एषामपि पृथगलंकारत्वं युक्तं मन्तव्यम् / एषेयसंभवद्वस्तुसंबन्धनिबन्धना / न केवलं - 1. 'बालैः' क. 2. 'प्रतिपाद्य तेन' ख. 3. 'पुनस्तावतैव' ख. 4. 'अशे. पाणामपि' ख.