________________ अलंकारसर्वस्वम् / अत्र निहतस्वादेः स्थानादिना वैधम्र्येण प्रतिबिम्बनम् / संभवतासंभवता वा वस्तुसंबन्धेन गम्यमानं प्रतिबिम्बकरणं निदर्शना। प्रतिबिम्बकरणप्रस्तावेनास्या लक्षणम् / तत्र कचित्संभवन्नेव वस्तुसंबन्धः खसामर्थ्याद्विम्बप्रतिबिम्बभावं कल्पयति / कचित्पुनरन्वयबा. धादसंभवता वस्तुसंबन्धेन प्रतिबिम्बनमाक्षिप्यते / तत्र संभवद्वस्तुसंबन्धा यथा 'चूडामणिपदे धत्ते यो देवं रविमागतम् / सतां कार्यातिथेयीति बोधयन्गृहमेधिनः // ' बिम्बप्रतिबिम्बभावमिति / उपमानोपमेयत्वमित्यर्थः / धर्मधर्मिणोरमेदोपचारात् / एवं चात्र निदर्शनायां सादृश्याविनाभावः। तेन 'प्रभाते पृच्छन्तीरनुरहसवृत्तं सहचरीनवोढा न व्रीडामुकुलितमुखीयं कथयति / लिखन्तीनां पत्राङ्कुरमनिशमस्थास्तु कुचयोश्चमत्कारो गूढं करजपदमासां प्रथयति // ' इत्यादौ संभवत्यपि वस्तुसंबन्धे प्रथनस्यौपम्याभावान्न निदर्शनालंकारत्वम् / अनेनैव वस्तुसंबन्धस्य संभवासंभवाभ्यामस्या भेदद्वयमप्युक्तम् / तदेवोदाहरति-चूडामणीत्या. दिना / तत्समर्थाचरणे प्रयोगादिति / 'कारीषोऽध्यापयति' इत्यादिवत् / अभ्यागतस्य रवेनिरिणा शिरसा धारणं तत्समर्थाचरणम् / अत एवात्र बोधयन्निति णिचस्तत्समर्थाचरणे प्रयोगान्मयेव भवद्भिरप्यतिथिसपर्या कार्येति संभवत्संबन्धमूलमत्रार्थमौपम्यम् / एवं च पर्वतस्य बोधनक्रियाकर्तृत्वासंभवादेवाभिमन्तृव्यापारोपारोहाभावान्नात्र प्रतीयमानोत्प्रेक्षा / नापि स्मृत्यलंकारः। गृहमेधिनां गृहकर्तृकस्य सद्विषयातिथ्यबोधकत्वस्य वाक्यार्थत्वात् / तत्र हि सदृशदर्शनाद्वस्त्वन्तरस्य स्मृतिर्भवति / नचात्र गृहमेधिनां रविदर्शनादतिथिस्मृतौ कर्तृत्वम् / तेषां सदातिथ्यकर्तव्यताया बोध्यत्वात् / नाप्यत्र रविणातिथेरतिथिना वा रवेः साम्यं विवक्षितम् / अपि तु मयेव गृहमेधिभिरपि सतामातिथ्यं कार्यमिति / अत एव नात्र वस्त्वन्तरकरणात्मापि विशेषालंकारः। तपनावगमेऽतिथ्यादेरसंभाव्यस्यावगमो 1. 'चमत्कार' क. 2. 'करणादपि' ख. 70 स०