________________ काव्यमाला। तस्यापि बिम्बप्रतिविम्वभावतया निर्देशे दृष्टान्तः / तस्यापीति न केवलमुपमानोपमेययोः / तच्छब्देन सामान्यधर्मः प्रत्यवमृष्टः / अयमपि साधर्म्यवैधाभ्यां द्विविधः / आयो यथा 'अब्धिलचित एव वानरभटैः किं त्वस्य गम्भीरता__ मापातालनिमग्नपीवरतनुर्जानाति मन्थाचलः / दैवीं वाचमुपासते हि बहवः सारं तु सारस्वतं जानीते नितरामसौ गुरुकुलक्लिष्टो मुरारिः कविः // ' अत्र यद्यपि ज्ञानाख्य एको धर्मों निर्दिष्टस्तस्थापि न तन्निबन्धनमौपम्यं विवक्षितम् / यन्निबन्धनं च विवक्षितं तत्राब्धिलङ्घनादावस्त्येव दिव्यवागुपासनादिना प्रतिबिम्बनम् / द्वितीयो यथा'कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नोऽरयः / तमांसि तिष्ठन्ति हि तावदंशुमान्न यावदायात्युदयाद्रिमौलिताम् // ' सामान्यस्योभयत्राप्यनुगमात् / अन्ये पुनरुभयत्राप्यार्थमौपम्यमाश्रित्य सामान्यस्य शुद्धसामान्यरूपत्वबिम्बप्रतिबिम्बभावाभ्यां व्यवस्थितेरनयोर्भेदमाहुः / तदप्यसत् / एतावतैवौपम्याख्यस्य सामान्यलक्षणस्यानुगतत्वादुपमाभेदवदनयोः पृथगलंकारत्वानुपपत्तेः / तदेवं वाक्यनैरपेक्ष्येऽपि वक्तृप्रतिवक्रोरेव विशेषादनयोर्भेदः सिद्धः / वैधhणापीति / भवतीति शेषः / तस्यापीति / उपमानोपमेययोरिति / प्रकृताप्रकृतयोधर्मिणोरित्यर्थः / अतश्च धर्माणां धर्मिणां च बिम्बप्र. तिबिम्बभावेन निर्देशोऽयमलंकारः / यदुक्तमन्यत्रापि-'दृष्टांतः पुनरेतेषां सर्वेषां प्रतिबिम्बनम्' इति / उपमानोपमेययोरिति तु स्वार्थ एव (न) व्याख्येयम् / अर्थान्तरस्य प्रकृतदाायोपादानात्सादृश्यस्याविवक्षणात् / आद्य इति साधर्म्यण। यथा वा-'स्थानेषु शिष्यनिवहैः प्रतिपाद्यमाना विद्या गुरुं हि गुणवत्तरमातनोति। आदाय शुक्तिषु बलाहकविप्रकीर्णै रत्नाकरो भवति वारिभिरम्बुराशिः // ' अत्र स्थानादीनां शुक्त्यादिभिः प्रतिबिम्बनम् / यन्निबन्धनं चेति / अर्थालंकारत्वं न पुनरौपम्यम् / तस्य च समनन्तरोक्तयुक्त्यासंभवात् / संभवतेत्यादि / 1. 'प्रतिपत्त्योः ' क.