________________ अलंकारसर्वस्वम् / शब्दस्य वाक्यार्थवाचित्वे प्रतिवाक्यार्थमुपमा साम्यमित्यन्वर्थाश्रयणात् / केवलं काव्यसमयात्पर्यायान्तरेण पृथर्देिशः / द्वितीयप्रकाराश्रयेण दृष्टान्तो वक्ष्यते / तदेवमौपम्याश्रयेणैव प्रतिवस्तूपमा / यथा 'चकोर्य एव चतुराश्चन्द्रिकाचामकर्मणि / आवन्त्य एव निपुणाः सुदृशो रतनर्मणि // ' अत्र चतुरत्वं साधारणो धर्म उपमानवाक्ये, उपमेयवाक्ये तु निपुणपदेन निर्दिष्टः / न केवलमियं साधर्म्यण यावद्वैधय॑णापि / यथात्रैवोत्तरस्थाने 'विनावन्तीन निपुणाः सुदृशो रतनैर्मणि' इति पाठे। सामान्यस्यैकरूपत्वमेवास्ति तत्किं पर्यायान्तरेण पृथहिर्देशः क्रियत इत्याशङ्ख्याहकेवलमित्यादि / यदुक्तम्-'नैकं पदं द्विः प्रयोज्यं प्रायेण' इति / बिम्बप्रतिबिम्बभावो द्वितीयः प्रकारः / एवमेतदुपसंहरन्प्रकृतमेव सिद्धान्तयतितदेवमित्यादिना / औपम्याश्रयेणेति / एतदभिदधता ग्रन्थकृता / प्रतिवस्तूपमाया दृष्टान्ताद्भेदो दर्शितः / यतोऽस्याः प्रकृतार्थस्य विशेषाभिदित्सया सादृश्यार्थमप्रकृतमर्थान्तरमुपादीयते / अत एव चात्र प्रकृताप्रकृतयोरुपमानोपमेयभावः / दृष्टान्ते पुनरेतादृशो वृत्तान्तोऽन्यत्रापि स्थित इति प्रकृतस्यार्थस्याविस्पष्टा प्रतीतिर्मा भूदिति प्रतीतिविशदीकरणार्थमर्थान्तमुपादीयते / अत एवात्रार्थारोपादानं प्रकृतस्य न वाप्युपयुक्तमपि तु प्रेतिपत्तुः प्रकृतार्थप्रतीतेरविस्पष्टतानिरासात् / केचिच्च दृष्टान्ते द्वयोः समर्थ्यसमर्थकभावेनानयोर्भेदमाहुः / तदसत्। यतः सरूपयोर्विशेषयोः समर्थ्यसमर्थकभावो न भवति / वस्त्वन्तरेण वस्त्वन्तरसिभ्यनुपपत्तेः / नहि सामान्यविशेषयोरेव भवति। सामान्यस्य नियमेन विशेषनिष्टत्वाद्विशेषस्य च नियमेन सामान्याश्रयत्वात् / यदि चात्र समर्थ्यसमर्थकभावः स्यादर्थान्तरन्यासादस्य पृथगलंकारता न स्यात् / समर्थ्यसमर्थकभावात्मनः 1. 'पान' ख. 2. 'उपमान' क. 3. 'कर्मणि' क. 4. विशेषानभिधित्सया' ख. 5. 'प्रतिपत्तेः' क.