________________ 94 काव्यमाला। अत्रोपकरणाद्यनेकक्रियाकर्तृत्वेन कुतूहलविशिष्टं मनो निर्दिष्टम् / छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यते। .. वाक्यार्थगतत्वेन सामान्यस्य वाक्यद्वये पृथनिर्देशे प्रतिवस्तूपमा। ___ पदार्थारब्धो वाक्यार्थ इति पदार्थगतालंकारानन्तरं वाक्यार्थगतालंकारप्रस्तावः / तत्र सामान्यधर्मस्येवाद्युपादाने सकृन्निर्देशे उपमा / वस्तुप्रतिवस्तुभावेनासकृन्निर्देशेऽपि सैव / इवाद्यनुपादाने सकृन्निदेशे दीपकतुल्ययोगिते / असंकृन्निर्देशे तु शुद्धसामान्यरूपत्वं बिम्बप्रतिबिम्बभावो वा / आद्यः प्रकारः प्रतिवस्तूपमा / वस्तुतः कलाशेषश्चन्द्रः सुरतमृदिता बालललना / मदक्षीणो नागः शरदि सरिदाश्यानपुलिना तनिम्ना शोभन्ते गलितविभवाश्चार्थिषु जनाः // ' अत्र शाणोल्लीढत्वादीनां बिम्बप्रतिबिम्बभावः / शुद्धसामान्यरूपत्वं यथा-'फणरअणराइअंगो भुअंगणाहो धरं समुव्वहइ / णहदप्पणोवसोहिअसिहो अतुह णाह भुअदंडो // ' अत्र राजितत्वशोभितत्वयोः शुद्धसामान्यरूपत्वम् / नन्वेतदनन्तरमेव मालादीपकमन्यैर्लक्षितं तदिहापि किं न लक्ष्यत इत्याशङ्कयाह-छायेत्यादि / छायान्तरेणेति शृङ्खलारूपेण / प्रस्तावान्तर इति शृङ्खलाबन्धोपचितरूपत्वात् / वाक्यार्थेत्यादि / एतदेव व्याख्यातुमलंकारान्तरैः सहास्या विभागं दर्शयति-तत्रेत्यादिना। 'तया स पूतश्च विभूषितश्च' इत्यत्रोपमायां सकृन्निर्देशः / 'पाण्ड्योऽयमंसार्पितलम्बहारः' इत्यादावपि चासकृन्निर्देशः / तदेवमिवाद्युपादाने साधारणधर्मस्य यथासंभवं खरूपं निरूप्येवाद्यनुपादानेऽपि निरूपयति-इवादीत्यादिना। यद्यपि दीपकतुल्ययोगितयोः सामान्यस्यासकृन्निर्देशोऽपि संभवति तथापि सकृन्निर्देश विना तयोरनुत्थानात्तदेवेह प्राधान्येनोक्तम् / असकृन्निर्देशश्च द्विधा भवतीत्याह -असदित्यादि / आद्यः प्रकार इति शुद्धसामान्यरूपत्वम् / यदि चात्र 1. 'फणरत्नराजिताङ्गो भुजङ्गनाथो धरां समुद्वहति / नखदर्पणनेपशोभितशिखश्च तव नाथ भुजदण्डः // ' इतिच्छाया. 2. 'साम्यस्य' ख.