________________ अलंकारसर्वस्वम् / 'किवणाण धणं णाआण फणमणी केसराइँ सीहाणं / . कुलवालिआण थणआ कुत्तो छेप्पंति अमुआणं / ' ___ एवमेकक्रियं दीपकत्रयं निर्णीतम् / अत्र च यथानेककारकगतखेनैकक्रियादीपकं तथानेकक्रियागतत्वेनैककारकमपि दीपकम् / यथा 'साधूनामुपकर्तुं लक्ष्मी धर्तुं विहायसा गन्तुम् / न कुतूहलि कस्य मनश्चरितं च महात्मनां श्रोतुम् // " नेकक्रियागतत्वेन दीपकं भवतीत्याह-अत्रेत्यादि। अत्र चोच्छ्वासवर्णनीयं भैरवाचार्यादिसक्तमुपकारकरणादिविशेषरूपं प्रस्तुतं श्रोतृनवबोधयितुं कविकर्तृकमिदं साधूपकारकरणादीनां सामान्यानामप्रस्तुतानां प्रशंसनम् / तेषां च सामान्यानां परस्परमौपम्यप्रतीतेरेककारकगतत्वेनेयं कारकतुल्ययोगिता / अतश्च नेदं कारकदीपकस्योदाहरणम् / तत्तु यथाः—'आलिङ्गितुं शशिमुखीं च सुधां च पातुं कीर्तिं च साधयितुमर्जयितुं च लक्ष्मीम् / त्वद्भक्तिमद्भुतरसां हृदये च कर्तुं मन्दादरं जनमहं पशुमेव जाने // ' अत्रालिङ्गनाद्यनेकक्रियाकर्तृत्वेनैक एव जनो निर्दिष्टः / प्रस्तुताप्रस्तुतं स्फुटमेव / 'विद्यति कूणति वेल्लति विवैलति निमिषति विलोकयति तिर्यक् / अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणीता वधूः शयने' // इत्यत्र तु स्वेदनादिक्रियाणां प्रस्तुतानामेकाधारगतत्वेन समुच्चीयमानत्वाच समुच्चयालंकारो न तु कारकदीपकम् / तद्धि प्रस्तुताप्रस्तुतानां क्रियाणामौपम्यसद्भावे भवति / एवं सर्वक्रियाणां प्रस्तुतत्वेऽपि समुच्चयस्यौपम्याभावादेव तुल्ययोगितातोऽपिभेदः / औपम्यसद्भावेऽपि तुल्ययोगितैव / यथा-'चकार दुर्बलानां यः क्षमामागविनामपि / जहें निरपराधानामपि यश्च बलीयसाम् // ' अत्र करणहरणयोः प्रकृतत्वम् / द्वयोरपि राजगतत्वेन वर्णनीयत्वात् / इदं बिम्बप्रतिबिम्बभावेनापि भवति / यथा-'मणिः शाणोल्लीढः समरविजयी हेतिनिहतः 1 'कृपणानां धनं नागानां फणमणयः केसराणि सिंहानाम् / कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् // ' इति च्छाया. 2. 'कीर्ति निधापयितुमर्थयितुं' ख. 3. 'वल्गति' ख.