________________ काव्यमाला। यभावस्यानेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वोक्तिः / वस्तुतस्तु वाक्यार्थत्वे आदिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः / क्रमेणोदाहरणम् रेहह मिहिरेण णहं रसेण कव्वं सरेण जोव्वण / अमएण धुणीधवओ तुमए णरणाह भुवणमिणं / ' 'संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् / . प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्व धेनुः // ' वक्तुमिष्टं तत्रैव प्रकरणादिबलादाश्रयणीयमित्यर्थः / अतश्च 'प्रस्तुतस्य विनान्येन व्यभिचारस्य दर्शनात्' इति नीत्या प्रस्तुताप्रस्तुतत्वमात्रनिबन्धन एवोपमानोपमेयभावो न भवतीति भावः। एवं 'प्रसिद्धनाप्रसिद्धस्य सादृश्यमुपमा मता' इत्यादिदृशा प्रसिद्धाप्रसिद्धत्वमात्रनिबन्धनोऽप्युपमानोपमेयभावो न वाच्यः। 'खमिव जलं जलमिव खं' इत्यादौ द्वयोरपि तुल्यत्वात् / प्रसिद्धगुणत्वाद्यभावेऽप्युपमानोपमेयभावस्येष्टेव्यभिचारस्य दर्शनात् / ननु चात्र साधर्म्य वाक्यार्थगतत्वेनैव प्रतीयत इति कथं तस्य पदार्थगतत्वमुक्तमित्याशयाह-अनेकस्येत्यादि / एवं पूर्वत्रापि ज्ञेयम् / धेनुसंध्ययोः प्रकृतत्वादत्रान्ये तुल्ययोगितां मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते-'धम्मजणेण काण वि काणवि अत्थजणेण बोलेई / कामजणेण काण वि काण वि एमेअ संसारो // ' ऐकक्रियमित्यनेनैकगुणमपि दीपकं खयमेवोदाहार्यमिति सूचितम् / तत्तु यथा-'फणासहस्रमृदधो दिवि नेत्रसहस्रभृत् / अद्वितीयः पृथिव्यां च भवान्नामसहस्रभृत् // ' अद्वितीयत्वं गुणः / एव-मेकां क्रियां गुणं वानेककारकगतत्वेनाभिधाय तदेव च दृष्टान्तीकृत्यैककारकमप्य .. 1. 'राजते मिहिरेण नभो रसेन काव्यं स्मरेण यौवनम् / अमृतेन धुनीधवः ." त्वया च नाथ भुवनमिदम् // ' इति च्छाया. 2. 'अजीधवलो' ख. 3. 'तु नान्येन' क.. 4. 'एकक्रियेत्यनेनैक' ख.