________________ अलंकारसर्वस्वम् / कठोरत्वं गुणः / एवमेषा चतुर्विधा व्याख्याता / प्रस्तुताप्रस्तुतयोर्व्यस्तत्वे तुल्ययोगिता प्रतिपाद्य समस्तत्वे दीपकमुच्यते प्रस्तुताप्रस्तुतानां तु दीपकम् / औपम्यस्य गम्यत्व इत्याद्यनुवर्तते / प्राकरणिकाप्राकरणिकयोर्मध्यादेकत्र निर्दिष्टः समानो धर्मः प्रसङ्गेनान्यत्रोपकाराद्दीपनाद्दीपसादृश्येन दीपकाख्यालंकारोत्थापकः / तत्रेवाद्यप्रयोगादुपमानोपमेयभावो गम्यमानः / स च वास्तव एव / पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः / अत्र प्राकरणिकत्वाप्राकरणिकत्वविवर्तित्वादुपमानोपमे कन्या पितृणामसौ दूरीकार्यहिमालया कथमुमापादद्वयी प्राप्यते / अत्र भगवतीपादद्वयस्यैव वर्णनीयत्वाद्गङ्गाचन्द्रकलयोरप्रकृतत्वम् / आपादनं च क्रिया / बिम्बप्रतिबिम्बभावेनापीयं भवति / यथा-क्षिपन्यचिन्यानि पदानि हेलया खराजहंसानधिरुह्य च स्थिता / कवीन्द्रवक्रेषु च यत्र शारदा सहस्रपत्रेषु रमा च रज्यति // ' अत्र वक्रपद्मयोर्बिम्बप्रतिबिम्बभावः / अनेनैव चाशयेनात्रालंकारवार्तिके ग्रन्थकृता वैशिष्ट्यमस्या दर्शितम् / शुद्धसामान्यरूपत्वेन यथा-'आस्तां बालस्य संनद्धे द्वे धात्र्यौ तस्य वृद्धये / एका पयःप्रस्रविणी सर्वसंपत्प्रसूः परा // ' अत्र प्रस्रवणस्य शुद्धसामान्यरूपत्वम् / एतदुपसंहरन्नन्यदवतारयति-प्रस्तुताप्रस्तुतानामिति / एकत्रेति प्राकरणिकेऽप्राकरणिके वा। अन्यत्रेति प्राकरणिकादौ / दीपकेति 'संज्ञायाम्' इत्यनेन कन् / सादृश्येन समुदायगम्यायाः संज्ञाया अभावात् / तत्रेति दीपके। वास्तव इति। प्रकृताप्रकृतयोरुपमानोपमेयरूपत्वात् / पूर्वत्रेति तुल्ययोगितायाम् / इयानेव च दीपकतुल्ययोगितयोर्विशेषोऽस्तीत्यप्यनेन दार्शतम् / न चैतावतैवानयोः पृथग्लक्षणं युक्तम् / औपम्यगर्भत्वाख्यस्य सामान्यस्य द्वयोरप्यनुगमात् / एवं च समुच्चितोपमादेरपि पृथग्लक्षणं स्यात् / ग्रन्थकृता पुनश्चिरन्तनानुरोधात्कृतम् / वैवक्षित इति / यत्रैव वक्तुरुपमानत्वमुपमेयत्वं वा 1. 'अत्र कठोरत्वं' ख. 2. 'दीपकालंकारोद्दीपकः' ख.