________________ काव्यमाला। अत्र ऋतुवर्णनस्य प्रक्रान्तत्वादिनानां पद्मानां च प्रकृतत्वादृद्धिगमनं क्रिया / एवं गुणेऽपि / यथा 'योगपट्टो जटाजालं तारवीत्वमगाजिनम् / उचितानि तवाङ्गेषु यद्यमूनि तदुच्यताम् // ' उचितत्वं गुणः / अप्राकरणिकानां यथा'धावत्वदश्वपृतनापतितं मुखेऽस्य निर्निद्रनीलनलिनच्छदकोमलाङ्या / भग्नस्य गूर्जरनृपस्य रजः कयापि तन्व्या तवासिलतया च यशः प्रमृष्टम् // ' ___ अत्र गूर्जर प्रति नायिकासिलतयोरंपाकरणिकत्वे मार्जनं क्रिया / गुणो यथा 'त्वदङ्गमार्दवं द्रष्टुः कस्य चित्ते न भासते / मालतीशशभृल्लेखाकदलीनां कठोरता // योगाद्वैविध्येन चतुष्प्रकारत्वमप्युक्तम् / न चास्यातिशयोक्तिरनुप्राणकतया वाच्या। तां विनापि वक्ष्यमाणोदाहरणेष्वस्याः संभवात् / औपम्याभावेऽपि गुणसाम्योदाहरणद्वयं प्राच्योदाहृतत्वाग्रन्थकृतोदाहृतम् / यत्र पुनरौपम्यं प्रतीयते तदुदाह्रियते यथा-'ईर्ष्याविकारावसरे तवोचितमिदं प्रिये / स्खलद्गतित्वं वचसां लीलाचनमणस्य च // ' अत्रोचितत्वं गुणः / अप्रकृतयोस्तु यथा—'भूभारोद्वहनव्यग्रे सुचिरं त्वयि तिष्ठति / देवाद्य फणिनामय्यः कूर्मश्च सुखिनौ परम् // ' अत्र सुखित्वं गुणः / केचिच्च नायिकामिलितयोः प्राकरणिकत्वं मन्यन्त इत्युदाहरणान्तरेणोदाह्रियते यथा-'शंभोर्यन्नखरश्मिभिः प्रणमतश्चूडामणित्वे 'स्थिता गङ्गा चन्द्रकला च सर्वजगतां वन्द्यत्वमापादिता / युक्तायाः परतापदावविपदः 1. 'प्रक्रान्तत्वम्' क. 2. 'अप्राकरणिकत्वं' क.