________________ अलंकारसर्वस्वम् / तदभिप्रायेणैवाध्यवसितप्राधान्यम् / प्रकारपञ्चकमध्यात्कार्यकारणभावेन यः प्रकारः स कार्यकारणताश्रयालंकारप्रस्तावे प्रपञ्चाथ लक्षयिष्यते / एवमध्यवसायाश्रयमलंकारद्वयमुक्त्वा गम्यमानौपम्याश्रया अलंकारा इदानीमुच्यन्ते / तत्रापि पदार्थवाक्यार्थगतत्वेन तेषां द्वैविध्ये पदार्थगतमलंकारद्वयमुच्यते औपम्यस्य गम्यत्वे पदार्थगतत्वेन प्रस्तुतानामप्रस्तुतानां वा समानधर्माभिसंबन्धे तुल्ययोगिता / ___ इवाद्यप्रयोगे ह्यौपम्यस्य गम्यत्वम् / तत्र प्राकरणिकानामपाकरणि. कानां वार्थानां समानगुणक्रियासंबन्धे अन्वितार्था तुल्ययोगिता / यथा 'सज्जातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् / विकखराण्यर्ककरप्रभावादिनानि पद्मानि च वृद्धिमीयुः / / ' मादीनामप्यतिशयोक्तिप्रसङ्गः स्यात् / तत्रापि धर्माणामेव भेदेऽभेदविवक्षणात् / एवं च विजातीयत्वेन भेदे धर्मयोरप्यव्याप्तिः प्रसज्यत इत्यलमसङ्गतग्रन्थार्थोदीरणेन / प्रपश्चार्थमिति / न तु निर्णयार्थम् / इहैव तस्य निश्चितत्वात् / प्रपञ्चश्च तत्रैव दर्शयिष्यते / एतदुपसंहरन्नन्यदवतारयति–एवमित्यादिना / गम्यमानौपम्याश्रया इति इवाद्यप्रयोगात् / पदार्थमिति / वाक्यार्थापेक्षया पदार्थप्रतीतेरन्तरङ्गत्वात् / तत्र प्रथमं तुल्ययोगितामाह-औपम्येत्यादि / एतदेव व्याचष्टे-इवेत्यादिना। तत्रेत्यौपम्यस्य गम्यत्वे सति / प्राकरणिकानामिति द्वयोः समानधर्मसंबन्धस्य संभवादेव ग्रहणसिद्धेर्बहुवचननिर्देशो बहूनां ग्रहणार्थम् / अत एव च बहूनामौपम्यग्रहणायेति न वाच्यम् / वक्ष्यमाणोदाहरणेषु द्वयोरौपम्यस्योद्भासमानत्वात् / एवं दीपकेऽपि ज्ञेयम् / अन्वितार्थेति / समानधर्मसंबन्धिनामंत्र भावात् / अनेनैव चास्याः प्रकृतानामप्रकृतानां च गुणक्रियात्मकधर्म 1. 'संजात' क-ख. 'सज्ज-आतपत्र' इति दिनपक्षे छेदः; 'सत्-जात-पत्र' इति च पद्मपक्षे. 2. 'ग्रन्थदूषणोदीरणेन' क. 3. 'निगीर्णत्वात्' क. 4. 'बहूनामेव' ख.