________________ . काव्यमाला / 'हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन / चरमं रमणीवल्लभ लोचनविषयं त्वया भजता // " तुल्यकालत्वं यथा'अविरलविलोलजलदः कुटजार्जुननीपसुरभिवनवातः। अयमायातः कालो हन्त हताः पथिकगेहिन्यः // ' .. एषु पञ्चसु भेदेषु भेदेऽभेदादिवचनं लोकातिक्रान्तगोचरम् / अत्र चातिशयाख्यं यत्फलं प्रयोजकत्वानिमित्तं तत्राभेदाध्यवसायः / तथा हि 'कमलमनम्भसि' इत्यादौ वदनादीनां कमलाधैर्भेदेऽपि वास्तवं सौन्दर्यं कविसमर्पितेन सौन्दर्येणाभेदेनाध्यवसित भेदेऽभेदवचनस्य निमित्तम् / तत्र च सिद्धोऽध्यवसाय इत्यध्यवसितप्राधान्यम् / न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीयः / अभेदे भेद इत्यादिषु प्रकारेष्वव्याप्तेः / तत्र हि 'अण्णं लडहत्तण' इत्यादौ सातिशयं लडहत्वं निमित्तभूतमभेदेनाध्यवसितम् / एवमन्यत्रापि ज्ञेयम् / एष्वित्यादि / एष्विति विषयसप्तमी / एष चावयवनिर्देशः / लोकातिकान्तेति / कविप्रतिभानिर्मितमेव सातिशयं वस्त्वेषां विषय इत्यर्थः / अत्रेति भेदपञ्चके / चशब्दः प्रमेयान्तरसमुच्चयार्थः / फलमिति / तस्यैव प्रतिपिपादयिषितत्वात् / तत्रेति / वास्तवस्य सौन्दर्यस्य कविसमर्पितेन सौन्दर्येणाभेदवचनेन / ननु चात्र वदनादीनां कमलाद्यध्यवसायः प्रतीयत इति कथमेतदुक्तमित्याशझ्याह-न त्वित्यादि / कुतश्च तेष्वव्याप्तिरित्याशयाह-तत्र हीत्यादि। कमलमनम्भसीत्यत्र हि यदि वदनादीनां धर्मिणामभेदाध्यवसाययोजनं क्रियते तत्तस्य धर्मिगतत्वेनैवेष्टेरिह धर्माणां न स्यादव्याप्तिः / अतश्च पूर्वत्र धर्माणामेवाध्यवसायो योजनीयो येन सर्वत्रैक एव पक्षः स्यादिति तात्पर्यार्थः / उपलक्ष्य चैतत् / यावता ह्यध्यवसितप्राधान्यमस्या लक्षणम् / तच्च धर्मिणामस्तु धर्माणां वेति को विशेषो येनाव्याप्तिः स्यात् / प्रत्युत धर्मयोरभेदाध्यवसायाभ्युपगमे उप.. 1. 'पतता' क. 2. 'एष्वेव' ख. 3. 'अतश्चात्र' ख. 4 'अब च.ख.