________________ अलंकारसर्वस्वम् / अत्र संभावनया संबन्धः / यथा वा. 'दाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः ___ श्वासाः प्रेजितदीप्रदीपकलिकाः पाण्डिम्नि ममं वपुः / किं चान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने ___ हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते // ' अत्र दाहादीनामम्भःप्रसृत्याद्यैरसंबन्धेऽपि संबन्धः सिद्धत्वेनोक्तः / कार्यकारणपौर्वापर्यविध्वंसः पौर्वापर्यविपर्ययात्तुल्यकालत्वाद्वा / विपर्ययो यथा हरणोपलक्षणपरम् / तेनान्यत्र खयमेव प्रयोजनमभ्यूह्यम् / संभावनयेति / नतु वस्तुतः / अत एव संबन्धस्यावास्तवत्वादुदाहरणान्तरमाह-दाहोऽम्भ इत्यादि / वाशब्दः समुच्चयार्थः / अत्र च कार्यकारणपौर्वापर्यविध्वंस इत्यनेन प्रसिद्धयोः कार्यकारणयोर्विध्वंसो विपर्ययस्तथा पौर्वापर्यस्यादिपश्चात्कालभावित्वेन प्रसिद्धस्य क्रमस्य विध्वंसो व्यत्ययः सहभावो वेत्यपि भेदत्रयं तन्त्रेणोक्तम् / एवं च कार्यकारणविध्वंसस्यापि पञ्चप्रकाराः / अवान्तरप्रकारत्वात्पुनरेषां पञ्चप्रकारत्वं नियमगर्भीकारेण पूर्वं व्याख्यातम् / तत्र कार्यकारणयोर्विपर्ययो यथा- 'एअत्तं अवअत्तं संकोअअरं मिअंक कांतीइं / गहस्सप अरइंदस्स कारणं भणइ सरस्स (?) // ' अत्रेन्दुकान्तेः संकोचे विपर्ययेण शतपत्रस्य कारणत्वमध्यवसितम्। अत्र भेदेऽभेद इत्येवंरूपातिशयोक्तिहेतुत्वेन स्थिता / उत्तरे त्वर्धे सैव श्लिष्टशब्दनिबन्धना हेतुः / तथाभावोपनिबन्धश्चात्र वक्रस्य लावण्यप्रकर्षप्रतिपादनार्थम् / क्रमविपर्ययो यथा—'कुपितस्य प्रथममन्धकारी भवति विद्या ततो भ्रुकुटिः / आदाविन्द्रियाणि रागः समास्कन्दति चरमं चक्षुः / आरम्भे तपो गलति पश्चात्स्वेदसलिलम् / पूर्वमयशः स्फुरत्यनन्तरमधर इति / ' अत्र कोपकार्ये विद्याभ्रुकुव्यादीनामन्धकारीभवनादौ क्रमं निगीर्य तद्विपर्ययोऽध्यवसितः / तस्यैव सहभावो यथा-'रइभवणाहि परिअणो मसणं मणिमेहला णिअंबाहिं / लज्जा हिअआहि समो सरंति..... ससिमुहीणं // ' अत्र परिजनादीनामपसरणे ऋमिकत्वेऽपि समकालत्वमध्यवसितम्। एवमेषां सर्वेषामेव भेदानां लोकासंभवद्विषयत्वं दर्शयितुमाह