________________ काव्यमाला। 'लावण्यद्रविणव्ययो न गणितः क्लेशो महान्खीकृतः खच्छन्दं चरतो जनस्य हृदये चिन्ताज्वरो निर्मितः / ' एषापि खगुणानुरूपरमणाभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनिहितस्तन्व्यास्तनुं तन्वता // अत्र लावण्यद्रविणस्य व्ययसंबन्धेऽप्यसंबन्धस्तन्वीलावण्यप्रकर्षप्र. तिपादनार्थ निबद्धः / यथा वा 'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः __शृङ्गारेकरसः खयं नु मदनो मासो नु पुष्पाकरः। वेदाभ्यासजडः कथं नुं विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः // ' - अत्र पुराणप्रजापतिनिर्माणसंबन्धेऽप्यसंबन्ध उक्तः / असंबन्धे संबन्धो यथा 'पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् / ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रौष्ठपर्यस्तरुचः स्मितस्य / / ' नुमः / अयं हि ग्रन्थकृतः पश्चात्कैश्चिद्विपश्चिद्भिः पत्रिकाभिलिखित इत्यवगीता प्रसिद्धिः / ततश्च तैरनवधानेन ग्रन्थान्तरप्रसङ्गत्वादनुपयुक्तत्वाद्वा पत्रिकान्तरादयमसमञ्जसप्रायो ग्रन्थखण्डो लिखित इति / न पुनरेकत्रैव तदैव मुखादीनां कमलाद्यैर्भेदेऽप्यभेद इत्युक्त्वापि न तु वदनादीनां कमलादिभिरभेदाध्यवसायो योजनीय इत्यादि वचनं पूर्वापरपराहतमस्य वैदुष्यशालिनो ग्रन्थकारस्य संभाव्यम्। लडहत्वादीनामित्यादिशब्दाद्विवर्तनेच्छाया एव ग्रहणम् / तत्रैवाभेदेऽपि भेदविवक्षणात् / उत्तरार्धे हि संबन्धेऽप्यसंबन्धः / 'लावण्यद्रविणव्ययो न गणितः' इत्यस्य पादत्रयी तन्वीलावण्यप्रकर्षप्रतिपादनार्थमिति / एतत्प्रयोजनदर्शनं सर्वोदा 1. 'व्ययस्य' क. 2. 'खविषय' क. 3. 'विधिः' ख.