________________ अलंकारसर्वस्वम् / अत्र मुखादीनां कमलाद्यैर्भेदेऽभेदः / अभेदे भेदो यथा'अण्णं लडहत्तणअं अण्णावि अकावि वत्तणच्छाआ। __सामा सामण्णपआवइणो रेहच्चिअ ण होइ // . अत्र लडहत्वादीनामभेदेऽप्यन्यत्वेन भेदः / यथा वा'मैग्गिअलद्धम्मि बलामोडिअचुंबिऍ अप्पणा अ उवणमिए / एक्कम्भि पिआहरए अण्णोण्णा होति रसभेआ / ' अत्राभिन्नस्यापि प्रियाधररसस्य विषयविभागेन भेदेनोपनिबन्धः / संबन्धेऽसंबन्धो यथा गुणेन चन्द्रादिना साम्येऽतिशयानतिपातादतिशयं विना च गौरिव गवय इत्यादावनलंकारत्वात् / अतश्चातिशयस्यैवसर्वालंकारबीजभूतत्वात् “एकैवातिशयोक्तिश्च काव्यस्यालंकृतिर्मता' इत्युक्तम् / नैतत् / इह ह्यतिशयस्य द्वयी गतिः यदयं कविप्रतिभानिवर्तितः सामान्यात्मा भवति भेदेऽप्यभेद इत्येवमादिरूपो विशेषात्मा वा / तत्राद्यः सर्वैरेवालंकारबीजतयाभ्युपगतः / अन्यथा हि गौरिव गवय इत्यादावलंकारत्वं स्यात् / तावता पुनरेतत्प्रभेदत्वं सालंकाराणां न युक्तम् / तत्त्वे हि विशेषोक्त्युल्लेखादीनामपि तत्प्रसङ्गः / सर्वालंकाराणामपि विशेषोक्त्युल्लेखरूपत्वात् / अथ द्वितीयपक्षाश्रयेणैतदुच्यते तदथ्ययुक्तम् / अस्या ह्यध्यवसितप्राधान्यं लक्षणम् / तच्चालंकाराणां न संभवति / तथात्वानवगमात् / अतश्चैषामसंभवत्तसामान्यत्वात्कथं तद्विशेषत्वमिति बहुप्रकारत्वमस्या निरस्तम् / मुखादीनामिति / न तु वास्तवस्य सौन्दर्यस्य / कमलाबैरिति / न तु कविसमर्पितेन सौन्दर्येण / अत एव चात्रातिशयाख्यमित्यादिस्तदभिप्रायेणैवाध्यवसितप्राधान्यमित्यन्तश्चोत्तरकालिको ग्रन्थः खमतिजाड्याल्लेखकैरन्यथा लिखित इति निश्चि। 1. . 'अन्यत्सौन्दर्यमन्यापि च कापि वर्तनच्छाया / श्यामा सामान्यप्रजापते रेखैव न भवति // ' इति च्छाया। 2. 'मार्गितलब्धे बलात्कारचुम्बिते आत्मना चोपनीते। एकस्मिन्नपि प्रियाधरेऽन्येऽन्ये भवन्ति रसभेदाः // इति च्छाया /