________________ काव्यमाला। .. तत्र मेदेऽभेदो यथा 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम् / / सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् // ' नन्यायत्वात्कथमस्यापि चतुर्थभेदान्त वो न्याय्यः / अथ यदि कार्यकारणयोः पौर्वापर्यविध्वंसात्समानन्यायताद्यभावेऽपि तथोपनिबन्धे पञ्चमोऽत्र प्रकार इष्यते तद्देशकालयोः पदार्थसंबन्धे विशेषाभावाद्भिन्नदेशत्वाभावेऽपि तथोपनिबन्धे षष्ठोऽपि भेदः परिगणनीय इति निर्विषयत्वादसंगतेरभावः प्रसज्यत इति चेत् / नैतत् / यस्मादतिशयोक्तावतिशयाख्यप्रयोजनप्रतिपिपादयिषया विषयनिगरणेन विषयिप्राधान्यं विवक्षितम् , असंगतौ तु विरुद्धत्वप्रत्यायनाय कार्यकारणयोर्भिन्नदेशत्वमित्युभयत्राप्यस्ति तावन्निर्विवादो लक्षणभेदः / कार्यकारणपौर्वापर्यविध्वंसे च वल्लभकर्तृकस्य हृदयाधिष्ठानस्य कारणस्य स्मरकर्तृकस्य च कार्यस्य पूर्वापरीभावं निगीर्य त्वदर्शनेनैव विषयान्तरवैमुख्येन त्वदभिलाषपरैव जातेत्यतिशयप्रयोजनप्रतिपादनार्थमन्यथात्वमध्यवसितमित्यतिशयोक्तिभेदत्वमेवास्य न्याय्यं न त्वसंगतिभेदत्वम् / तत्र हि 'बबन्ध धम्मिल्लमधीरदृष्टेः क्ष्मानायकश्चम्पकमालिकाभिः / चित्तेषु मन्युः स्थिरतां जगाम विपक्षसारङ्गविलोचनानाम् // ' इत्यादौ धम्मिल्ले बन्धश्चित्तेषु च मन्युस्थैर्यमिति कार्यकारणयोर्भिन्नदेशत्वम् / यत्रैव बन्धस्तत्रैव तत्कायस्य स्थैर्यस्योपपत्तेविरुद्धत्वप्रत्यायकम् / विरोधस्य चात्राभासमानत्वम् / धम्मिक्लबन्धमन्युस्थैर्ययोर्वस्तुतोऽपि कार्यकारणभावसद्भावाभावाख्यस्य बाधकप्रत्ययस्योल्लासात् / न च बाधोदयेऽपि विरोधाप्रतीतिः। द्विचन्द्रप्रतीतिवदनुपपद्यमानतया स्खलद्गतित्वेन तत्प्रतीतेरवस्थानात् / न चातिशयोक्तौ स्खलद्गतित्वम् / निश्चयखभावत्वादस्या अनुपपद्यमानत्वशङ्काया अप्यभावात् / नहि कार्यकारणयोः पौर्वापर्यविध्वंस उपपद्यत इत्यत्र विवक्षितं किंत्वेवं फलमेतदिति अत एवासंगतेरतिशयोक्तेश्च स्वरूपभेदोऽपीति कार्यकारणयोः पौर्वापर्यविध्वंसेनासंगतिर्भिन्नदेशत्वेन चातिशयोक्तिरिति यथोक्तमेव युक्तम् / अत एव च 'पौर्वापर्यविपर्याससमकालसमुद्भवौ / कार्यकारणयोयौं तौ विरोधाभासपल्लवौ // ' इत्याद्यपि यदन्यैरुक्तं तदयुक्तमेवेति न न्यूनप्रकारत्वम् / केचिच्च सर्वालंकाराणामप्यतिशयोक्तेरेव प्रमेदत्वादस्या बहुप्रकारतामाचक्षते / तथा छुपमायामप्यस्येतद्भेदत्वम् / न्यूनगुणस्य मुखादेरधिक