________________ अलंकारसर्वस्वम् / एवमध्यवसायस्य साध्यतायामुत्प्रेक्षां निर्णीय सिद्धत्वेऽतिशयोक्ति लक्षयति अध्यवसितप्राधान्ये त्वतिशयोक्तिः। अध्यवसाने त्रयं संभवति–खरूपं विषयो विषयी च / विषयस्य हि विषयिणान्तर्निगीर्णत्वेऽध्यवसायस्य खरूपोत्थानम् / तत्र साध्यत्वे खरूपप्राधान्यम् / सिद्धत्वे त्वध्यवसितप्राधान्यम् / विषयप्राधान्यमध्यवसाये नैव संभवति / अध्यवसितप्राधान्ये चातिशयोक्तिः। अस्याश्च पञ्च प्रकाराः। भेदेऽभेदः / अभेदे भेदः / संबन्धेऽसंबन्धः / असंबन्धे संबन्धः / कार्यकारणपौर्वापर्यविध्वंसंश्च / एतदुपसंहरन्नन्यदवतारयति-एवमित्यादि / तामेव लक्षयितुमाह / एतदेव व्याख्यातुमध्यवसायस्य तावद्यथासंभवं स्वरूपं दर्शयति-अध्यवसितेत्यादि। परस्परनिष्ठत्वानुपपत्तरध्यवसायस्य किं विषयविषयिभ्यामित्याशझ्याह-विष. यस्य हीत्यादि / विषयविषयिभ्यामन्तरेणाध्यवसाय एव न भवतीत्यर्थः / एषामेव विषयविभागं दर्शयति-तत्रेत्यादिना / तत्रेति त्रयनिर्धारणे / स्वरूपप्राधान्यमित्यध्यवसायंप्राधान्यम्। अध्यवसितप्राधान्यमिति विषयिप्राधान्यम् / साध्यत्वं सिद्धत्वं चोत्प्रेक्षायामेव निर्णीतम् / नैव संभवतीति / अध्यवसायस्वरूपानुदयात् / तदेवं विषयिणः प्राधान्यविवक्षायामलंकारो भवतीत्याह-अध्यवसितेत्यादि / उक्तं चान्यत्र-'अध्यवसायसाध्यत्वप्रतीतावियमिष्यते। तत्सिद्धताप्रतीतौ तु भवेदतिशयोक्तिधीः॥' इति / पञ्चेति न्यूनाधिकसंख्यानिरासार्थम् / अत एव कार्यकारणपौर्वापर्यविध्वंसस्य चतुर्थभेदान्तर्भावो न वाच्यः। एवं हि भेदान्तराणामपि तदन्तर्भाव एव स्यात् / अभेदाद्यसंबन्धेऽपि संबन्धोपनिबन्धनात् / अथ भवत्वेतदिति चेत् / न। अत्र च यद्यपि सर्वत्र भेदेऽभेदादौ वस्तुतोऽसंबन्धे संबन्ध एव वर्णयितुं शक्यते तथाप्यवान्तरभेदविवक्षयान्यैर्लक्षितत्वाद्विविक्तस्यासंबन्धे संबन्धस्य दर्शितत्वाच्च विभागेन निर्देशः कृत इति भवद्भिरेवोक्तत्वात् / तत्समा। 1. 'अध्यवसितस्य' ख. 2. 'विरुद्धत्वं' ख.