________________ काव्यमाला। तदसावुत्प्रेक्षायाः कक्ष्याविभागः प्रचुरतया स्थितोऽपि लक्ष्ये दुरवधारत्वादिह न प्रपञ्चितः / तस्याश्चेवादिशब्दवन्मन्येशब्दोऽपि प्रतिपादकः / किं तूत्प्रेक्षासामग्र्यभावे मन्येशब्दप्रयोगो वितर्कमेव प्रतिपादयति / यथोदाहृतं प्राक् / 'अहं विन्दं मन्ये त्वदरिविरह' इत्यादि / क्षयन्नेतदुपसंहरति-तदसावित्यादि / अस्याश्च वाचकव्यवस्था दर्शयतितस्याश्चेत्यादि / उत्प्रेक्षासामय्यभाव इति संभावनाप्रत्ययात्मकत्वाभावात् / प्रागित्यपहृतौ / एवमिवशब्दोऽपि कचिद्वितर्कमेव प्रतिपादयति / यथा'वृत्तानुपूर्वे च न चातिदीर्घ जो शुमे सृष्टवतस्तदीये / शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः // ' इयं च भेदेऽभेदे इत्याद्यतिशयोक्तिभेदमय्यपि दृश्यते / तत्र भेदेऽभेदो यथा-पृथ्वीराजविजये-'गृह्णद्भिः परया भक्त्या बाणलिङ्गपरम्पराः / अनर्मदेव यत्सैन्यैर्निरमीयत नर्मदा // ' अत्र नर्मदाया अभेदेऽपि भेदः / संबन्धेऽसंबन्धो यथा-'अद्वैतं तद्भवतु भवतां सं. विदद्वैतपुष्ट्यै क्षमामृत्पुत्रीपरिवृढ रमाकान्तदेहद्वयस्य / यत्राकाष्र्ण्य निज इव विदन्दक्षिणार्धप्रभाभिर्देहेऽन्येषामपि पुररिपुः कार्घ्यमन्तः प्रमार्टि // ' अत्र कार्ण्यसंबन्धेऽप्यसंबन्धः / असंबन्धे संबन्धो .यथा-'क्षीरक्षालितचन्द्रेव नीलीधौताम्बरेव च / टङ्कोल्लिखितसूर्येव वसन्तश्रीरजृम्भत // ' अत्र क्षीरक्षालितत्वाद्यसंबन्धेऽपि संबन्धः। कार्यकारणयोस्तुल्यकालत्वे यथा-'यशसेव सहोद्भुतः श्रियेव सह वर्धितः / तेजसेव सहोद्भूतस्त्यागेनेव सहोत्थितः // ' पौर्वापर्यविपर्यये यथा-'शराः पुरस्तादिव निष्पतन्ति कोदण्डमारोपयतीव पश्चात् / अन्वक्प्रहारा इव संघटन्ते प्राणान्द्विषः पूर्वमिव त्यजन्ति // ' कार्यकारणयोर्विपर्ययेऽपीयं दृश्यते यथा-'सेयं संततवर्तमानभगवद्वाणार्चनैकाग्रताव्यग्रोपान्तलताविमुक्तकुसुमा चन्द्रप्रसूतिर्नदी / यस्याः पाण्डुरपुण्डरीकपटलव्याजेन तीरद्वये शश्वत्पार्वणचन्द्रमण्डलशतानीव प्रसूते जलम् // ' अत्र नर्मदातश्चन्द्रस्योत्पत्तिप्रतीतेः कार्यकारणविपर्ययः / क्रमिकविपर्ययेणापीयं दृश्यते यथा-'अखर्वगर्वस्मितदन्तुरेण विराजमानोऽधरपल्लवेन / समुत्थितः क्षीरविपाण्डुराणि पीत्वेव सद्यो द्विषतां यशांसि // ' अत्र समुत्थानानन्तरभाविनो यशः पानस्य पूर्व निर्देशात्क्रमिकविपर्ययः / अत्रैव 'पिबन्निवोचैः' इति पाठे तु क्रमिकयोः समकालभावित्वम् /