________________ अलंकारसर्वस्वम् / च विषयस्य गम्यमानत्वं युक्तम् / तस्योत्प्रेक्षिताधारत्वेन प्रस्तुतस्याभिधातुमुचितत्वात् / तस्माद्यथोक्तमेव साधु / फलोत्प्रेक्षायां यदेव तस्य कारणं तदेव निमित्तम् / तस्यानुपादाने कस्य तत्फलत्वेनोक्तं स्यात् / तस्मात्तत्र तस्य निमित्तस्योपादानमेव न प्रकारान्तरम् / यथा 'रथस्थितानां परिवर्तनाय पुरातनानामिव वाहनानाम् / उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् // ' अत्राश्वपरिवर्तनस्य फलस्योत्तरदिग्गमनं कारणमेव निमित्तमुपात्तम् / द्गम्यमानत्वम् / तस्येति धर्मिरूपस्य विषयस्य / उत्प्रेक्षिताधारत्वेनेति / उत्प्रेक्षितस्य लेपनादेर्धर्मस्य व्यापनादिधर्मनिगरणेनोत्प्रेक्षाविषयीकृतस्याधारत्वेन भित्तिभूततयेत्यर्थः / धर्मिणमन्तरेण धर्मस्य विश्रान्तेः। प्रस्तुतस्येति / अवश्याभिधेयस्येत्यर्थः / एवं हेतुफलोत्प्रेक्षयोरपि धर्मिगतत्वेनैवान्यधर्महेतुकत्वं निगीर्यान्यधर्महेतुत्वमन्यधर्मफलत्वं चाध्यवसीयते। अतश्च स धर्मी वाच्य एव भवति। यथोक्तोपपत्तेः / निगीर्यमाणः पुनधर्म एवोपादानानुपादानाभ्यां द्विधा / तत्तु यथा-एषा स्थलीत्यादि / अत्र नूपुरस्य धर्मिणो बद्धमौनत्वे निश्चलत्वादि धर्महेतुकत्वं निगीर्य दुःखहेतुकत्वमुत्प्रेक्षितम् / निगीर्यमाणश्चानुपात्तो धर्मः / उपातस्तु यथा-'मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः / अन्योन्यविश्लेषणमन्त्रसूत्रभ्रान्त्येव चञ्चुस्थितमाचकर्ष // ' अत्र चक्रवाकस्याकर्षणे चाटुसमुत्सुकहेतुत्वं निगीर्य भ्रान्तिहेतुत्वमध्यवसितम् / निगीर्यमाणश्च धर्म उपात्तः / अनुपात्तस्तु यथा-'कुमुदिन्यः प्रमोदिन्यस्तदानीमुदमीमिलन् / नलिन्या भर्तृविरहान्म्लानिमानमिवेक्षितुम् // ' अत्र कुमुदिनीनामुन्मीलने चन्द्रोदयहेतुकत्वं निगीर्य दर्शनं फलत्वेनोत्प्रेक्षितम् / निगीर्यमाणश्च धर्मोऽनुपात्तः / तदेवं हेतुखरूपयोर्यथासंभवं स्वरूपं दर्शयित्वा फलोत्प्रेक्षाया अपि दर्शयति-फलोत्प्रेक्षायामित्यादिना / तस्येति फलस्य / एतच्च हेतूत्प्रेक्षाविचारग्रन्थविवृतेरवगतार्थमिति ग्रन्थविस्तरभयान्न पुनरायास्यते / तदेवं ग्रन्थकृदात्मनः श्लाघां कटा 2. 'मानम्लानिं' ख. 1. 'तत्क्षणात्' ख. 6 अ० स०