________________ गुणोत्कर्षातिरेकेऽपि किमन्यत्संभवेदिति / रीतिमेकामपीच्छन्ति न चान्ये भामहादयः // ' कवयस्तु पुनरेनामत्यन्तं श्रद्दधते / तथा च वैदर्भीमुद्दिश्य वामनस्य काव्यालङ्कारे 'सति वक्तरि सत्यर्थे सति शब्दानुशासने / अस्ति तन्न विना येन परिश्रवति वाङ्मधु // ' अन्यत्रापि'किं त्वस्ति काचिदपरैव पदानुपूर्वी . यस्यां न किंचिदपि किंत्रिदिवावभाति / आनन्दयत्यथ च कर्णपथं प्रयाता चेतः सताममृतवृष्टिरिव प्रविष्टा // . वचसि यमधिगम्य स्पन्दते वाचकश्री वितथमपि तथात्वं यत्र वस्तु प्रयाति / उदयति हि स तादृक् क्वापि वैदर्भरीतौ सहृदयहृदयानां रक्षकः कोऽपि पाकः // ' -- आवन्ती-लाट-मागध्यादयस्त्वेतच्छायानुपातिन्य एवेति न ताः पृथगुद्दिष्टाः। ___ अलङ्कारोऽपि शब्दार्थशरीरोत्कर्षद्वारेण रसोत्कर्षाधायकः / परमसौ न गुणवदन्तरङ्गो नियतरसवृत्तिश्चेति ततोऽत्यन्तं भिद्यते / किन्तु तत्स्वरूपप्रतिष्ठाने संभवति शब्दार्थभित्तिकया बाह्यवृत्त्या कदाचिदेवानुप्रासादिभिः शब्दालङ्कारैरुपमादिभिरालङ्कारैश्चोपकारकः / तदसंभवे तु, एतेऽलङ्काराः केवलमु. क्तिवैचित्र्यमावविश्वान्ताः / तथा च यत्राङ्गिनो रसस्थानुपस्थानं तत्रोपमादिशब्दप्रयोगो गौणः / एतच्च लोकव्यवहारानुरूपम्-तन्न तावत्कामिन्याः सति सौन्दर्य हारादयस्तदङ्गेषूत्कर्ष घटयन्ति / तदाहित्ये कुरूपया परिधीयमानास्तु प्रेक्षकस्य दर्शनवैचित्र्यमात्रभाजो भवन्ति / क्वचित्वमी सतोऽपि रसस्य नोपकतारः / लोकेऽप्यतितरां सुकुमारया वध्वा अलङ्काराश्चेत्परिधीयेरन् तर्हि केवलं ग्राम्यत्वमुपयान्तो वैचित्र्यनिदर्शनात्मनैव परिणमन्ति। औद्भटास्तु-गुणालङ्काराणां साम्यत्वमृच्छत इति सर्वस्वप्रारम्भे ग्रन्थकृताऽपि निर्दिष्टमेव / एषांप्रकारान्तराश्रयणेन सिद्धान्तोट्टङ्कने स्वियं वाचोयुति:-लौकिको गुणालङ्कारवर्ग: