________________ थादयस्तु चतुर्विशतिगुणानाहुः। तदेतदास्तां तावत्, पूर्वोक्तो माधुर्योजःप्रसादभेदभिन्नविविधोऽपि गुणयोगो यथावसरं काव्योत्कर्षघटनायै नोपेक्षणीयः / तथा च भोजदेवः- . .. .. 'अलङ्कृतमपि श्राव्यं न काव्यं गुणवर्जितम् / ......... गुणयोगस्तयोर्मुख्यो गुणालङ्कारयोगयोः // ' इति / तत्समानमानो वामनोऽपि'युवतेरिव रूपमङ्ग काव्यं वदते शुद्धगुणं तदप्यतीव। विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः // यदि भवति वचश्युतं गुणेभ्यो वपुरिव यौवनहीनमङ्गनायाः। - अपि जनदयितानि दुभंगत्वं नियतमलङ्करणानि संश्रयन्ते // ' एवं सत्यपि गुणविरहे यद्यलङ्काररीत्योरन्यतरः प्रतिष्ठेत चेत्तदापि स्वभावतश्चमत्कृतिस्पर्शे काव्यत्वं जागरूकमेव / किंच गुणरीत्यलङ्कृतीनां मध्ये यस्य कस्यचन प्राधान्यसत्त्वेऽपि स्वभावतया परः संश्लिष्यत एवेत्यपि परीक्ष्यम् / गुणाभिव्यञ्जकपदसंघटना रीतिरित्युच्यते / सा च तत्तद्देशप्रभवनिबन्धनाभिर्वैदर्भी-गौडी-पाञ्चालीति संज्ञाभिः प्राधान्येन त्रिधा विभज्यते / एता गुणसहचारिण्योरसादीनामुत्कर्षघटयित्र्यश्च भवन्ति / ता इमास्तिस्रोऽपि प्रायेण गुणपरतत्रा एव गण्यन्ते, क्वचित्तु स्वातन्त्र्येणापि चमत्कारकारिण्यः / उद्भट-मम्मटादिभिस्त्वेता उपनागरिका-परुषा (ग्राम्या) कोमलेति च संज्ञान्तरैराख्याताः। वामनेनासां तत्तद्देशप्रभवमूलिका संज्ञेति प्रतिपन्नम् / तया च तत्सूत्रम् 'विदर्भादिषु दृष्टत्वात्तत्समाख्या।' (1 अधिक. 2 अध्या. 10 सू.) तदन्ये न क्षमन्ते। ततोऽन्यत्राप्यासां प्राचुर्येण दर्शनात् / ततः पूर्वाचार्यसंज्ञेति मन्यन्ते। एष एव पक्षो युक्तियुक्तः प्रतिभाति / रीतिमधिकृत्य साहित्यमीमांसायां त्वित्थं मीमांसितम्-. .. 'पाञ्चाली गौडिकामध्ये यथा रीतिं न मन्वते / तथा वैदर्भपाञ्चाल्योः केचिन्मध्यां न शासति // .. केचिन्मध्यानेच्छन्ति समासाल्पबहुत्वंतः (2) / भावाभाववदप्येते मन्यन्ते वृत्तियोगिनि //