________________ शौर्यादि-हारादिश्च यथाक्रम समवेत-संयोग-सम्बन्धितया भिन्नश्चेदवगम्येत, तर्हि न काप्यनुपपत्तिः / परं काव्यान्वयिनो अलौकिका माधुर्यानुप्रासोपमादयो गुणालङ्कारा एकेनैव समवायसम्बन्धेनावतिष्ठन्त इत्यवश्याभ्युपेयम् / यतोऽमी शब्दार्थाभ्यां संश्लिष्टा एव दृश्यन्ते न तु विश्लिष्टा इत्येवमन लोकव्यवहारं दृष्टान्तीकृत्य संयोगसम्बन्धाख्यानेन वैषम्यारोपणं न न्याय्यम् / तथा च प्राचा गडलिका-प्रवाहसदृशमेवैषां भेदाभिधानन्यापार इति वदन्ति / इदं च प्रकाशकृता निरस्तमेव / वामनेन तु-काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्कारा इति सूत्रयता केवलं गुणा एव काव्यव्यवहारप्रवर्तकाः, नालङ्काराः, सन्तश्चैते गुणाहितशोभातिशयहेतव एव भवन्तीत्युक्तम् / यद्यपीदमपि तत्रैव सहेतुकं प्रत्युक्तम् / तथाप्युपचारेण निर्वाह्यम् / नाट्यशास्त्रे 'उपमा दीपकं चैव रूपकं यमकं तथा / काव्यस्यैते बलङ्काराश्चत्वारः परिकीर्तिताः // ' (नाट्यशा. अ. 16, श्लो. 41) इतीयन्तोऽलङ्काराः / भामहालंकारे तु संभूय संख्यानेन त्रिचत्वारिंशदलकाराः / एत एव दण्डिनापि सलक्ष्यलक्षणं मांसलीकृत्य व्युत्पादिताः / औद्भटीये त्वन्या अपि षडलङ्कृतयः कल्प्यन्ते / इतरत्तु समानमेव / रुद्रटेन तु मूलालङ्कारान् यथायथं संगृह्णतापि अवान्तरभेदाः सञ्चार्यन्ते / मम्मटेन तु काव्यप्रदीपसंकलिता एकषष्टिरलङ्काराणां संस्थाप्यते / अलङ्कारसर्वस्खेप्येतदासवालङ्कारस्थितिः / केवलं रसवदाद्यलंकारा अधिकं सन्निवेशिताः। एवमिह योत्तरमलङ्कारा वृद्धि गमिताः। तेनैवं प्रतिभाति—यदत्र गुणरीतिवत्संकोचाय प्राच्यैदृक्पात एव न कृतः। एतदुत्तरं तु लाघवमलक्षयता कुवलयानन्दकारेण इतोऽप्यधिकाः संख्यायोपचयं प्रापिताः / किमियता / उपमा वावदनेकप्रकारवैचित्र्येणानेकालङ्कारबीजभूता, सा चैकाप्यात्मानं प्रपञ्चयन्ती बहुव्याकुलीकरोतीति नातिच्छन्नम् / अत्रेऽयमप्पय्यदीक्षितस्य चित्रमीमांसोकि:-. 1 नात्र वैशेषिकसंमतः समवायोऽभिप्रेतः / किन्तु नित्यसम्बन्धोपलक्षकं सम्बन्धान्तरमेव /