________________ ज्ञातधर्मकथाविचारा: अंतउरे नेणेव उवागच्छइ' इति ज्ञातधर्म कथा सू० (119) / वृत्तिस्तु यथा-'जाव धूवं डहित्ता जिणघराओं पडिनि अवमइ'त्ति यावत्करणादर्थत इदं दृश्य-लोमहस्तकं परामृशति. ततस्तेन जिनप्रतिमा: प्रमार्टि, सुरभिणा गन्धोदकेन स्नपयति, गोशीर्षचन्दनेनानुलिम्पति, वस्त्राणि निवासयति, ततः पुष्पाणां माल्यानां-ग्रथितानां गन्धानां चूर्णानां वस्त्राणामाभरणानां चारोपणं करोति स्म / मालाकलापावलम्बनं पुष्पप्रकरं तन्दुलैर्दर्पणाद्यष्टमङ्गलकालेखनं च करोति / ततो वाम अंचे-उत्क्षिपतीत्यर्थ: / दाहिणं धर्राणतलंसि निहट्ट-निहत्य-स्थापयित्वा निवेशयति निवेसेइ इत्यस्य पर्यायः / 'वंदइ नमसइ' त्ति / तत्र वन्दते-चैत्यवन्दनविधिना प्रसिद्धेन, नमस्यति पश्चात् प्रणिधानादियोगेनेति वृद्धा: / न च द्रोपद्याः प्रणिपातदण्डकमात्र चैत्यवन्दनभिहितं इत्यन्यस्यापि श्रावकादेस्तावदेव तदिति मन्तव्यं, चरितानुवादरूपत्वादस्य / न च चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूरिकामादिदेववक्तव्यतायां बहूनां शस्त्रादिवस्तूनामर्चनं श्रूयते / कि चाऽविरतानां प्रणिपातदण्डकमात्रमपि चैत्यवन्दनं सम्भाव्यते / यतो वन्दते नमस्यतीति पदद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता-विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाभ्युपगमपुरस्सरकायोत्सर्गाद्यसिद्धेः, ततो चन्दते सामान्येन, नमस्करोति-गाशयवृद्धःप्रीत्युत्थानरूपनमस्कारेणेति / किञ्च-'समणेण सावएण य अवस्स कायवयं हवइ जम्हा / अंतो अहोनिसिस्स य तम्हा आवस्सयं नाम' // तथा 'जण्णं समणों वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे उभओ कालं आवस्सए चिट्टइ, तणं लोउत्तरीए भावावस्सए' इत्यादेरनुयोगद्वारवचनात् / तथा सम्यग्दर्शनसम्पन्न: प्रवचनभक्तिमान् पविधावश्यकनिरतः षट्स्थानकयुक्तश्च श्रावको भवतीत्युमास्वातिवाचकवचनाच्च श्रावकस्य षविधावश्यकस्य सिद्धावावश्यकान्तर्गतं