________________ 3 सूत्रकृताङ्गस्य विचारा: अस्थार्थ:-- ये केचन शीतलविहारिण: धर्मेण मुधिकया लब्धम् उद्देशिकक्रीतकृतादि-दोषरहितमित्यर्थः / तदेवंभूतमप्याहारजातं विनिधाय-व्यवस्थाप्य सन्निधि कृत्वा भुजते / तथा ये विकटेनप्राणुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एवं प्रदेशे देशसर्वस्नान कुवन्ति / तथा यो वस्त्र धावति-प्रक्षालयति / तथा लूपयति-शोभार्थ दीर्घ सत् पाटयित्वा ह्रस्वं करोति इत्वं वा सन्धाय दीर्घ करोति इत्येवं लूषयति स निर्ग्रन्थमावस्य-संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्यर्थ: / एवं तीर्थकर-गणधरादय आहुरिति सूत्रकृताङ्गे कुशीलाध्ययने उक्तम् / कम्मं परिण्णाय दगंसि धीरे बियडेण जीविजय आइमुक्खं / से बीयकंदाइ अभूजमाणे विरप सिणाणाइसु इथियासु // 22 // धीर उदकसमारम्भे सति कर्मबन्धी भवतीत्येवं परिज्ञाय किं कुर्यात् ? इत्याह-विकटेन-प्रासुकोदकेन सौवीरादिना जीव्यात् , आदि:- संसारः तस्मात् मोक्ष आदिभोक्षः संसारविमुक्तिं यावदिति सूत्रकृताङ्गकुशीलाध्ययने उक्तम् / आयरियपरंपरएण आगयं जो उ छेयबुद्धोए / कोवेइ छेन्यवाई जमालिनासं स णासिहिति // 165 // इति सूत्रकृताङ्गयाथातथ्याध्ययने निर्युक्तायुक्तम् / चाउद्दसमुद्दिट्टपुण्णमासिणीसु पडिपुण्णं पोसह सम्म अणुपा. लेमाणे' इति / 'आलोइयपडिकंता समाहिपत्ता' इति आहारपरिज्ञाध्ययने सूत्रकृदङ्गस्य श्रावकं प्रत्युक्तं, साधु प्रति तु चाउजामाओ धम्माओं पंचमहत्वइयं सपडिक्कमणधम्मं उवसंपजित्ताणं विहरइ उदकसाधुरितिशेषः / ततो यादृशं प्रतिक्रमणं साधो: तादृशं श्रावकस्यानुमीयते। एतदपि सूत्रकृति। 'चाउद्दसट्टमुद्दिट्टपुण्णमासिणीसु' इत्यस्यार्थो यथा-चतुर्दश्यष्टम्यादिषु तिथिषु उद्दिष्टासु-महाकल्याणसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृप्यपि चतुर्मासकतिथिषु इत्यर्थः / एवम्भूतेषु धर्मदिवसेषु THE. JNE, HTHHTHHHHE