________________ क्शाश्रुतास्कन्ध-पर्यायाः झालनं करोतीत्यर्थ: / अष्टमदशायां-'जइ अत्थपयवियारो' गाहा कंठा 'कुत्तनिहिट्ठा निसीहे' इति / कुत्र निर्दिष्टा गाथा ? निशीथे इत्यर्थ: / 'चयणाईणं छह वत्थूणं-च्यवनादीनि पञ्च षष्ठस्तु गर्भापहारः / 'पणियभूमि वजभूमि' इति / पणियभूमि इत्यस्य पर्यायां वजभूमिरिति / भूमिशब्देन काल उच्यते / पुरिसंतरकालो युगंतरकालश्चत्येका / 'पणपन्नं पावा पणपानं कल्लाणा' इति / पञ्चपञ्चाशदध्ययनानि पापकर्मप्रतिपादकानि पञ्चपञ्चाशश्च कल्याणप्रतिपादकाति अध्ययनानीत्यर्थः। तत्रैकत्र मरुदेवीवक्तव्यताइत्यादि ज्ञेयं / 'वेसमणकुंडधारिणो तिरियजंभगा देवा' इति कुण्डधारिण इति तेषां नाम ज्ञेयम् / पावाए मज्झिमाए-एकार्थे / ततः हस्तिपालकस्य राज्ञ: सत्कायां रज्जुकसभायां लेखकसभायामित्यर्थः / चंद्रसंवच्छरमधिकृत्यापदिश्यते 'जेण जुगाई सो' इति / येन कारणेन स संवत्सरः युगस्यादौ वर्तते / 'वासाणं सवीसहराए किं निमित? पारण सयऽढाए कडियाई पासेहिंतो कंबियाणि' इति / अर्थस्तु वर्षाकालस्य सत्के सवीसइराएसु दिनेषु गतेषु किंनिमित्तं पर्युषणा क्रियते ? यतः प्रायेण स्वार्थ कृतानि गृहाणीत्यर्थः / 'जहन्नलंद उद उलं-उदका सत् यावता शुष्यति तावान् काल इत्यर्थः / 'भगवओ जम्मनक्खत्तं संकंते' इति / भगवतो जन्मनक्षत्रं सक्रान्त: तत्रादय इत्यर्थः / अचलमाणा-अचलंती / अणुत्तरोववाइयसंपया होत्था' -ये अनुत्तरविमानेषु उत्पत्स्यन्ते इत्यर्थः / 'समणस्स गं भगवओ महावीरस्स नव वाससयाई वीइकंताई, दसमस्स य वाससयस्स अयं तेणउइमे संवच्छरे गच्छइ' इत्यस्याओं यथा-यदा किल पर्युषणा चतुर्थ्या जाता, तत: पूर्व कालमानमिदमिति वदन्ति वृद्धाः, तस्वं पुन: केवलिनो विदन्ति इति भावार्थ:। आहोहिएण-अभ्यन्त