________________ नि:शेषसिद्धान्तविचार-पर्याये रावधिना / 'पासस्स णं अरहओ पुरिसादाणियस्स कालगयस्स दुवालस वाससयाई वीइकताई, तेरसमस्सं य वाससयस्स अयं तेयालीसइमे संवच्छरे गच्छई' इत्यस्यार्थो यथा-महावीर कालमानं पूर्वोक्तं 993 एतन्मध्ये जिनान्तरं पार्श्वनाथसत्कं प्रक्षिप्यते इदं 250 ततो यथोक्तं मानं भवति 1243 अङ्क-स्वरूपमिति भावार्थः / अरहओ णं अरिटनेमिस्स कालगयस्स चउरासीई वाससहस्साई वीइकंताई, पंचासीइमयस्स वाससहस्सस्स नव वाससयाई वीइकंताई, दसमस्स य वाससयस्स अयं तेणउइमे संवच्छरे गच्छइ' इत्यस्याओं यथापार्श्वनाथमानं 1243 अस्य मध्ये नेमिपावा॑न्तरं क्षिप्यते इदं 83720 ततो ययोक्तं मानं भवति 84993 अङ्कस्वरूपत इत्यर्थः / बायालीसवाससहस्सेहिं ऊणिया गच्छइ' इत्यत्र ऋषभकालात् प्रभृति चतुर्थीप्रवृत्तपर्युषणादिनं यावत् कालमानमित्यर्थः / कोडियकाकंदवग्यावच्चसगोत्ताणं' ति कोडियकाकन्दयो: वग्यावच्चं गोत्तं / 'अज्जत्ताप समणा निग्गंथा' इति / साम्प्रतं ये विहरन्तीत्यर्थः / 'अंतरा वि से कप्पइ पजोसवित्तए' पञ्चभिः पञ्चभि: दिनैः कृत्वा इत्यर्थः / 'अत्येगइयाणं एवं वृत्तपुव्वं भवइ दाए भंते' इति सूत्रस्य व्याख्या-केनापि भिक्षा गच्छता एवं पूर्वम् उक्तं स्यात् यथा-अन्यस्य दास्यामि भक्तं न तु स्वयं प्रतिग्रहीष्यामि इत्येको भङ्गक इन्यादिका चतुर्भङ्गी ज्ञेया। चूण तु-'अत्थेगइया आयरिया दाए भंते ! दावे गिलाणस्स मा अप्पणो पडिग्गाहे चाउम्मासगाइसु' इत्यस्यार्थो यथा-सन्ति केचिदाचार्या: तत: शिष्यः प्राह-तान् प्रति-दाए भंते' इति / अस्यार्थस्तु ग्लानस्य दास्यामि न त्वात्मना ग्रहीष्यामि चतुर्मासकादिषु इति चतुर्भङ्गी ज्ञेया इत्यर्थ: / 'तुमं पित्थ भोक्खसि ओयणं दवं पाहिसि' इति / त्वयाऽपि भोक्तव्य आंदनः जलं च पातव्यं ततो बहुतरमपि गृह्णा