________________ द्वितीयः खण्डः प्रश्नव्याकरणपर्याया यथा - ' सूत्र ब्यवस्थाप्यमतो विमृश्य व्याख्यानकल्पादित एव नैव' इति व्यारव्यानकल्पात्-प्रज्ञाशास्त्रपुस्तकादिलक्षणात् इतः-पूर्वोक्तात् नैव सूत्रं व्यवस्थाप्यमित्यर्थः / 'संसारमोचकाः' इति / वृद्धोऽयं अन्धोऽयं इति भणित्वा ये मारयन्ति ते संसारमोचका: / 'व्रणे श्वयथुरायासात्' श्वयथुःशोफः / इति प्रश्नब्याकरणपर्यायाः // जीवाभिगमस्य यथा-'सतः सम्भूतभावस्य चारु रूपं फलं च यद्' इति, सत:-आप्तात् सम्भूतभावस्य-शास्त्रस्यत्यर्थः, चारु रूपं फलम्-अभिधेयमित्यर्थः / 'वचनाजिनसंसिद्धः तन्नरर्थक्यमन्यथा / तन्नरर्थक्यं-वचननरर्थक्यम् / 'सर्वशादपि हि श्रोतुः तदन्यस्यार्थदेशने' इति / श्रोतु:, किंविशिष्टस्य ? तदन्यस्याऽसर्वज्ञस्येत्यर्थ: / 'तदाधिपत्यादाभासः सत्त्वार्थेषपजायते' इति, सत्त्वार्थेषु-पुरुषार्थेषु इत्यर्थः / जीवाभिगमपर्याया: समाप्ता: // प्रज्ञापनाऽष्टादशपदे-'देशतोऽपि स्वावगाहनाततप्रदेशोऽयमनाहारक:' अयं केवली स्वावगाहनया कृत्वा विस्तृतप्रदेशोऽनाहारकः स्यादित्यर्थ: / विशतितमपद-'मुहतूरए चेव'त्ति / मुखवाद्यानि डिम्भानामिव / गोविसो-गोवृष: ।"घयणुव्व छले' इति / घयणोभाण्ड उच्यते / धाटि-भैश्योपजीवि (न:) त्रिदण्डिन: धाडीवाहा भण्यन्ते / त्रयोविंशतितमपदे-'स सर्वज्ञत्वाश्च भवति' इति / स व्याबाधाभावः / व्याबाधाभावो नुः स्वस्थस्य ज्ञस्य ननु स सुखं' इति / व्याख्या यथा-सुखं कि भण्यते ? स व्याबाधाऽभावः, कस्य 1 नु:पुरुषस्य, किविशिष्टस्य ? स्वस्थस्य पुनः ज्ञस्य अहा? | शरीरसम्बन्धात् 'अगुरुलघु आत्मानं नमति शरीरं न गुरु नापि लध्विति' शरीरं कर्तृ आत्मानं कर्मतापन्न नमयतीति तात्पर्यम् / 'खद्योतबुध्नादिषु' इति / बुध्नं-गुदप्रदेशादि / 'बेइंदियजाइनामेणं पुच्छा / गो०१