________________ नि:शेषसिद्धान्तविचार-पर्याये. कथानककोट्यो भवन्तीति तात्पर्यार्थ: / 'अनशनिनां भक्तद्वयछेदो भवती' ति व्यासनकापेक्षया / 'तृतीयकप्रणायकभेद' इति / तृतीयप्रतिपादकभेदस्य सूचनार्थ इत्यर्थः / बोधनं-प्रज्वालनं / 'शेषमूलगुणा:' प्राणातिपातादिपूर्वोक्तमूलगुणापेक्षया शेषाः मूलगुणाः / ‘एको य होइ सन्वटे' लक्ष इति शेषः / 'दर्दरेण चपेटाभिघातेन' इति / चपेटाभिः भित्तिषु दत्तपश्चागुल्यः / 'ओगाहित्ता' अवगाह्य-ऽधो गत्वेत्यर्थः / मनुष्याणां आवासा: शरीरलक्षणा एव / 'ऊर्ध्वम् अच्युतं यावत्' इत्यादिवाक्येऽर्थो यथा-इह मनुजलोके उत्पद्यमानस्य अच्युतादिति तात्पर्यार्थ / तत: अच्युतमनुष्यलोकयोः अन्तरम् ऊर्ध्वलोक इहोक्तः / नरके सामान्यापेक्षया द्वादश मुहूर्ता: सर्वनरकापेक्षया, यतः द्वादशमुहूर्त्तानन्तरं सप्तानामेकत्रापश्यं नारकोत्पत्तिः। // समवायपर्याया: समाप्ता: // भगवतीपर्याया यथा-शते 7 उ०२-'तिरियाणं चारित्त' इत्यादिगाथार्थो यथा-तिरश्चां पश्चमहाव्रतारोपणं स्यात् अष्टादशपापस्थानोच्चारणे सति इत्यर्थः / उ० ९-तृणशूक-तृणसिलूः / समुत्पन्ने प्रयोजने ये गणं कुर्वन्ति ते गणप्रधाना राजानो गणराजा:-सामन्ता: / शते 25. उ० 3. स्थापना सङ्ख्यात- ब्रह्मलोकतिर्यगु- | 'तिण्हं सहस्सपहत्तं' इति / त्रयाणां प्रदेशाः मध्यप्रान्तश्रेणयः / | सम्यक्त्व-थुतदेशविरतिसामायिअलोक- अधोलोकको- | कानां / 'तदद्वयस्य भावात श्रेणय: पश्रेणयः / / साधुसाध्वीद्वयस्य भावात् 'विश तिरेव तेषां' साधुसाध्वीनां श्रूयते // इति भगवतीपर्यायाः समाप्ताः //