________________ द्वितीयः खण्डः समच्छेदः प्राप्त' इति-समांशता तु उक्तव्यतिरिक्तभागाभावात् समांशता न तु भागसमतयैव / 'सत्तदि खंडिए अहोरत्ते भागाओ एकवीसति - सप्तषष्ट्या खण्डितेऽहोरात्रे एकविंशतिर्भागा भवन्तीत्यर्थ: / 'एतदेव द्विगुणं षट्पञ्चाशतो नक्षत्राणा' मितिद्विगुणत्वं च नक्षत्रयोईयत्वात् / 'न बाधते' इति-अबाधा-कर्मणोऽनुदय इत्यर्थः / तदेष चतुरशीत्या लक्षैर्गुणितं पूर्वमुच्यते' इति-पूर्वमिति सङ्ख्याविशेषः। 'तच्च स्थानम्' इत्यत्र पदछेदः कार्य: / 'स्थानान्तरमित्येवम्' इति स्वस्थान-स्थानं इति प्राग् व्याख्यातं, स्थानान्तरं तु पवं वक्ष्यमाणन्यायेन, तथाहि-पूर्व स्वस्थानं तदेव चतुरशीत्या लक्षैगुणितम् अनन्तरस्थानं त्रुटितागं भवतीति / 'चउदस नामा ओ अंगसंजुता' इति 'पुब्बतुडियाऽडड' इत्यादीनि चतुर्दश नामानि अङ्गसंयुक्तानि कार्याणि / ततोऽष्टाविंशतिः सङ्ख्याविशेषा: स्थानलक्षणा लभ्यन्ते / शीर्षप्रहेलिकायां चतुर्नवत्यधिकं स्थानशतम् अङ्कस्थानशतं स्यादित्यर्थ: / 'छेदेन अष्टादशलक्षणेन' इति / छेदेनअंशेन / 'एगूणपन्नासइमे मंडलगए अट्टाणउइ एगसद्विभाए मुहुत्तस्स दिवसखेत्तस्स निवुइडेत्ता' इति / एकोनपञ्चाशत्तमे मण्डले तिष्ठन् गविः रेकषष्टिभ गैः मुहूर्तो भवति तेषां भागानां अष्टानवति भागान दिनक्षेत्रस्य हानि नयतीत्यर्थः / धणूवि अंगुलानि 96 / नालिया-दण्डापकरणविशेषः जुगं-यूपं अक्षः-शकटसम्बन्धी, मुशलम् एतानि सर्वाणि हस्तचतुष्टयम् इति तात्पर्यम् / 'द्रव्यादिभेदात् वा विशतिर्वा' इति-द्रव्यक्षेत्रकालभावाः पञ्चसु इन्द्रियेषु चत्वारः प्रत्येक योज्यन्ते, ततो विंशतिरिन्द्रियाणीत्यर्थः / 'एत्थ य समलक्खणाइया जम्हा / नवनाययसंबद्धा अक्खाइयमाझ्या तेणं // तो सोहिज्जंति फुडं' इत्यस्य गाथाशकलस्य व्याख्या यथा-समलक्षणा:-समस्वरूपा: नवज्ञातसम्बद्धा आख्यायिकाद्या: तेन कारणेन शोध्यन्ते ततो 'वेगलानां' उद्धरितानां 'पुनरुक्त्तवर्जितानां' अर्द्धचतुर्था एव