________________ नि:शेषसिद्धान्तविचार-पर्याये अध्य० 10 - 'सतन्त्रीककरटिका' इति / करटिकायां हि तन्त्र्यो भवन्ति / 'परिणामो ह्यर्थान्तरगमन' मित्यादिश्लोकः द्रव्यार्थनयस्य मतेन / सत्पर्य येण नाशः इत्यादिश्लोकस्तु पर्यायनयमतेन / 'वेमाय' विमात्रया / 'जहण्णवजो विसमो समो वत्ति / जघन्यगुणवर्ज: जघन्यस्निग्धवर्ज: विषमः समो वा बन्धो भवत्येवेत्यर्थः। अचपटलस्येव' अब्भोडिंगस्येवेत्यर्थः / 'सइकरणं'ति स्मृतिकरणं / 'जम्मणविणीय उज्झा' इत्यादि-गाथार्थ: यथासङ्ख्येन ज्ञेयो वृत्तिं परिभाव्य अग्रतः पश्चाच्च द्वादशचक्रिणां वृत्तावुक्तत्वात् / 'सिलनिचओ रायहाणि' त्ति सिलनिचयः पर्वतः / 'पढमबीयदुओ' इति / प्रथमद्रतः क्षुधाद्रुतः, द्वितीयद्रुतः पिपासाद्रुतः / अनामिका-वृहदगुलिकाया लघुतरा / मधुमुखाः-भट्टाः / 'मावला:'-प्रकृतिविशेषाः / 'एगे भवं दुवे भवं' भवानित्यर्थः / स्थानाङ्गपर्यायाः समाप्ता: / समवायपर्याया यथा-'वाणमंतराणं सोहम्माओ सभाओ' तेषामपि सभानामतन्नाम / 'शरीरावयवप्रमाणस्पन्दितादि-विकारफलोद्भावकमिति - शरीरावयवप्रमाणस्य स्पन्दितादिविकारस्य च स्पन्दितं-चलनं / छदै:-पत्रैः / 'संतो हाइ अलोगो' इति-सान्तोऽलोकः प्राप्नोति। 'विमाणावाससयसहस्सा' इति-विमानावासशतसहस्राणीत्यर्थ: / प्रकीर्णक:-चामरः / 'जोयणसहस्स पढमं वाहल्लेणं च' इति-बाहल्यम् उच्चत्वमत्र ज्ञेयम् / 'पुढवोवलवइरसकरा पढमंतिपृथ्वीउपलवज्रशर्करामयः प्रथम इत्यर्थः / विभाजितं-विभाग: व्यवस्थितं समांशं-समविभाग योजनभ्येकषष्टिभागानां मध्यात् षट्पञ्चाशत् भागप्रमाणं चन्द्रमण्डलमित्यर्थ: / 'पण्णरसभागेण य' चन्द्रं कृत्वा राहुः पनरसमेव पञ्चदशभिर्भागः तं चन्द्रं चरति / 'कालो वा जोण्हा वा' इति-कृष्णो वर्ण: ज्योत्स्ना वा / 'सर्वेषां नक्षत्राणां सीमाविष्कम्भः सप्तषष्ट्या भागैः भाजितः समांश: