________________ H .. द्वितीयः खण्डः 'तदहिगदासनिवत्तीफलं'ति / अणुव्रतादिकदोषनिवृत्ति: फलं महावतकथने फलमित्यर्थः / ‘दोषान्नभुगि'ति / रात्रिपर्युषितभोजीत्यर्थः / 'ओमंथिय' त्ति / अधोमुखं / 'पास' त्ति पार्श्वन / तृतीयं तूत्तानं / आहारा-तन्तुका: / एत्थ पसिद्धी' उत्तरं / ओघसणं (ओसगण) बुड्डनं माणुस्से आभिआगे य' मानुषोपसर्गा: बलात् कर्म कायंते इत्यादयः / कालांतरसबीजा पडिसिद्धो विसइ-प्रविशति / 'भाजनं संमार्टि' भव्यरीत्या करोति / 'अजाघरे '-चामुण्डागृहे / प्रत्यइगिरां स्खलितादिरूपाम् / वग्घाडिय-मुहमक्कडिया। पडिसिद्धेसु य दोसे-द्वेषे / 'दहनाद्यं ऋक्षसप्तक' मिति / कृत्तिकाद्यमित्यर्थः / 'मैच्यादिकम्'- अश्विन्यादिकम् / 'यातुराशायां' गच्छतो दिशीत्यर्थः / 'परिघाख्यामनिलदहनदिग् रेखां' इत्यस्यार्थो यथा-इयं पूर्वोक्त्ता नक्षत्रपद्धतिः परिघाख्या भण्यते, तत इमां परिघाख्यां नक्षत्रपद्धतिमतीत्य-उल्लङ्घ्य किंविशिष्टाम् ? अनिलेन-वातेन प्रज्वालितदहना दिग् रेखेव तां / अध्य० ८-'पउमुत्तरो त्थ पढमो पुस्विमसीउत्तरे कूले' इति / पूर्व दिग्वतिन्या: सीताया उत्तरे कूले इत्यर्थः / अध्य० ९'साजीणे भुज्यते यत्तु, तदऽध्यसनमुच्यते' इति / सह अजीणेन भुज्यते यत् तत् साजीण म्-अजीण मित्यर्थः, अध्यसनं चोच्यते / इडा दक्षिणा नाडी वामा तु नाडी पिङ्गला। वैद्यकृष्टक:-वैद्यसेवकः / चिलातक्षेत्रे-म्लेच्छक्षेत्रे / चातुर्वर्ण्य-ब्राह्मणादिकं / 'समुहाइ समुस्सिओ व जो नवओ' इति / स्वमुखानि-द्वादशाङ्गुलप्रमाणनिजमुखानि यस्य देहे नवगुणानि स्युः, अष्टोत्तरशताङ्गुलोच्छ्यदेह इत्यर्थः / प्रतिवेशिकराज:-प्रत्यासन्ना राजा। ओमवयभिक्खवियरणं 'ति / दुःकालात्यये / पुनर्नवा-साटडी / आग्नेयं-कृत्तिका, आदित्यं नक्षत्रपुनर्वसुरुच्यते / ब्राहम्यं-अभिजित् भृगुः-शुक्रः ‘भरणी स्वात्याग्नेयं' इत्यादिश्लोकेषु त्रीणि त्रीणि नक्षत्राणि प्रायः एकैकस्यां वीथ्यां योजनीयानि, यत: क्वापि चत्वारि नक्षत्राणि एकवीथ्यां सन्ति /