________________ नि:शेषसिद्धान्तविचार-पर्याये नियमेण' मिति द्वादशवर्षसंलेखनाया अर्द्धादिनियमतो विधेयमित्यर्थः। 'तत्र नारका: कति कति-सङ्ख्याता: सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्त: सश्चिता: कत्युत्पत्तिसाधात् बुद्ध्या राशीकृता: ते कतिसञ्चिता' इत्यस्य तात्पर्य-यथा कति कति इत्यस्य पर्यायोऽयं सङ्ख्याता: सङ्ख्याता एकस्मिन् एकस्मिन् समये ये उत्पन्नाः ते भिन्नभिन्नस्थानोत्पन्ना अपि सङ्ख्यातोत्पत्तिसाधात् कतिसश्चिता उच्यन्ते-सङ्ख्यातसञ्चित उच्यन्ते इत्यर्थः / मेहनं-पुस्खलिङ्ग / भत्तीसह-भक्त्तौषधं / 'गुत्तो समियत्तणमि भइयव्वा' यत: संवृतकायत्वेन गुप्तोऽपि मनसा दुष्ट चिन्तयन् न समित: / ' तवजणवावारपरो' तपःसमुपार्जने व्यापृत इत्यर्थः / शुद्धचातुथिकादयः- चतुर्थभागग्रहीतार: कर्मकरादयः / नालिकबद्धकुसुमानि - वृन्तयुक्तानि / लेखाचार्या: - पाठयितारः / त्रिस्थानकद्वितीयोद्देशके तु 'पुरावट्ठपुराणे' पूर्वशिक्षितो यः पुराण: भ्रष्टः जात इत्यर्थ: / 'संविग्गो उज्जुओ य तेयसी 'ति / सांवग्गआदेयवचनः / तेजस्वीत्यर्थ: / 'बहुसो पयासो य' दुराचारस्य बहुप्रकाशक इत्यर्थः / 'अणइसेसी से' अनतिशायीत्यर्थ: / 'आसयपोसयसेवी-मुखापानयो: सेवकः / 'वट्टइ नयावि आवाए' न चोपकारे वर्तते इत्यर्थ: / हस्तिकल्पनं-हस्तिप्रगुणीकृतिः / चतुःस्थानकेषु - 'अइसंघणपरस्स-वञ्चनापरस्य / 'सुहदुक्खबहुसईयं' सुखदुःखबहुउत्पत्तिकम् / 'मोत्तण सगमबाहं' स्वकं-निजं / तम्हा स कालकालो' स मरणकाल इत्यर्थः / 'ओयरियावाआ'-औदरिकवादः / 'कलनी'-दाली। 'अस्थिताम्रफलानि'-आथीतानीत्यर्थः। * षट्प्रज्ञकगाथादिरूप' इति / षट्प्रनको ग्रन्थविशेषः / अध्यय० ५'देसविरई पडुच दोण्हवि पडिसेहणं कुज्जे 'ति / देशविरतिं प्रतीत्य द्वयोः सर्वद्रव्यपर्याययोः प्रतिषेधनं कुर्यादित्यर्थः /