________________ द्वितीयः खण्डः मारितोऽयं वृद्धादिः सुखी भविष्यतीति बुद्ध्या व्यापादयन्ति तेषां म्लेच्छादीनाम् / आततायिनशब्देन गोघातकादयः षद उच्यन्ते / 'अकल्ककुहकाजीवनं' कल्कः-पापं कुहकः-मायागोलकादिकः ताभ्याम् आजीवनं यत्र नास्तीत्यर्थः / 'व्रतेश्वरयागविधानेने 'ति / व्रतार्थम् ईश्वरस्य यागविधानं तेन / अध्ययने ७-'गतं न गम्यते तावदगतं नैव गम्यते' इत्यादिश्लोकार्थस्तु यथा-अतीतगमनक्रियं वस्तु न वर्तमानक्रियायुक्तं भवति, अगतम् अनागतक्रियं न वर्तमानक्रियं भवतीत्यर्थः / इति सूत्राकृताङ्गपर्याया:॥ स्थानपर्याया यथा-वैशा-जाड्यम् / आश्रवणक्लेदने लालानिर्गमार्द्रताकृत् अम्ल इत्यर्थः। रिषभसेन:पोण्डरीकः / ठाणे २-खण्डः सण्डः कल्होडकः / उक्षा-सम्बन्धनम् / अत्थवावर्ण-अर्थव्यापनम् / 'गणहरथेराइकयं' इत्यादिगाथायां यथासङ्ख्यं, यथा गणधरकृतं ध्रुवं 1 थेरकृतं चलं.२, तथा आदेशात् कृतं ध्रुवं 1 मुक्तव्याकरणकृतं चलमिति। तथा ध्रुवम्-अङ्गप्रविष्टं 1 चलम्-अनङ्गप्रविष्टम् 2 / 'कर्मकर्तृप्रयोगोऽयं' कर्मवभावादित्यर्थः / ततो 'भवति सम्पद्यते' इत्यर्थः / 'असज्ञिनश्च नारकादिषु व्यन्तरावसानेषूत्पद्यन्ते, न ज्योतिष्कवैमानिकेष्विति तेषामसज्ञित्वाभावादिहाग्रहणं' इत्यस्य वाक्यस्य तात्पर्यार्थो यथा-असज्ञिन: ज्योतिष्कवैमानिकेषु नोत्पद्यन्ते इति तेषां ज्योतिष्कवैमानिकानाम् असज्ञित्वाभावादग्रहणं / त्रिसोपानप्रतिरूपका:-यत्र दिक्त्रये सोपानानि प्रतिद्वारं स्युः / पूषा चेतीश्वरा भानां' भानामिति नक्षत्राणां / गेंदुकः-दण्डकः / 'दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येयभागमात्रसूक्ष्मपनके ' त्यादेरर्थो यथा-यत् दृष्टिगोचरम् अतिसूक्ष्मद्रव्यं तस्याऽसङ्ख्येयभागमात्रे पनकजीवो यः तच्छरीरासङ्ख्यातगुणखण्डीकृतवालाग्रभृत इत्यर्थः / 'एत्तो अद्धाइ