________________ श्रीजैनज्ञान-गुणसंग्रह त्यक्तासारं ज्ञानोदारं विश्वोद्धारं विद्यारं, स्फूर्जद्योगं मुक्तोद्योगं भासा चन्द्रं निस्तन्द्रम् / संख्यावन्तं पुण्योदन्तं कीा कान्तं संशान्तं, वन्दे दे दत्तासेवं सौधर्मेशे धर्मेशे // 2 // आयुर्विद्युयोताभं वर्लीलां कीलाभामन्ते, विज्ञा विज्ञायाशु ब्रीडां कामक्रीडां संप्रोज्झ्य / दुःखोद्रेकच्छेदच्छेकं भक्त्युद्रेकं बिभ्राणा, देवाः सेवां यस्याऽकुर्वन् कुन्थुः कुर्यात्कल्याणम् // 2 // - श्रीअरनाथजिनचैत्यवन्दनम् / . . ( हरिणीवृत्तम् ) जनितजनतानन्दं कन्दं महोदयवीरुधा,मविरतिरतिप्रीतिप्रौढिप्रमुक्तमगुर्बुधाः / यकमशरणा लब्धोत्कर्णाः शरण्यमनिन्दितं, स दिशतु शिवं देवीसूनुर्भवान्तमनिन्दितम् // 1 // अतुलजवना बद्धस्पद्धाः सुरासुरनायका, यदभिगमने लब्ध्वोत्कण्ठा भवन्त्यविनायकाः। अरजिनपतेः पादद्वन्द्वं सरोजविकस्वरं, दलयतुतरां पापद्वन्द्वं प्रभाजितभास्वरम् // 2 // शुभमतिजनस्वान्तध्वान्तप्रणाशनभास्कर, विदलितदरद्वेषाऽज्ञानं विरागसमादरम् हृदयहरणैर्हावैः क्षुब्धेतरं हरिणीदृशां, हृदयममलं देवीसूनोस्तनोतु सुखं विशाम् // 3 //