________________ 1 चैत्यवन्दनसंग्रह स्रग्विणी भक्तचेतस्तमश्चूरिका, पूरिका स्वर्गनिःश्रेयसां सम्पदाम् / मूर्तिरेवंविधा ते यशःसाधिका, दीयतां भद्रमानन्दवासाधिका 3 श्रीशांतिनाथजिनचैत्यवन्दनम् / ____ (मालिनीवृत्तम् ) शिवपदसुखकारी कर्मविद्वेषिवारी, मदनमदविभेदी विश्ववस्त्वेकवेदी / भवजलधिविशोषी पापवारप्रमोषी, दिशतु कुशलमीशः शान्तिनाथो मुनीशः॥१॥ स्वहृदि धृतभवन्तः प्रास्तरागा भवन्तः, तव नतिशुभवन्तस्ते नराः पुण्यवन्तः / अतिशयसुखसारं केवलालोकसारं, परमपदमुदारं यान्ति भव्या मुदाऽरम् // 2 // प्रशमरसविपुष्टा नाशिताशेषदुष्टा, जगति जनितचित्रा पुण्यपोषैः पवित्रा / महिमजितसमुद्रा मालिनी यस्य मुद्रा, स जयति जिनशान्तिर्निर्जितस्वर्णकान्तिः॥३॥ श्रीकुन्थुनाथजिनचैत्यवन्दनम् / (कामक्रीडावृत्तम् ) संसृत्तारं विध्वस्तारं श्रीदातारं धातारं, चश्चच्छोभारम्यं गम्यं योगीशानामीशानाम् / ' संसाराम्भोराशिं तीर्ण सौख्याकीर्ण विस्तीर्ण, वन्दे देवं कृत्यासेवं कुन्थु सावं सर्वज्ञम् // 1 //