________________ श्रीजैनज्ञान-गुणसंग्रह हेयाहेयरकटनविधौ बद्धलक्ष्यो नितान्तं, ज्ञानोद्योतैर्भुवि भविजनं बोधयन् योनितान्तम् / निर्मुक्तात्मा शिवसुखरतिः कर्मरोगैरपीडयः, सर्वज्ञोऽसौ जयतु विमलः सर्वदेवेरपीडयः // 2 // संसाराम्भोनिधिनवतरी दुष्टभीनरभक्ष्याs,मन्दाक्रान्ता शमरसभरैर्दुमैतागैरलक्ष्या / दत्तानन्दा भुवि जययशोविस्फुरद्वैजयन्ती, सौख्यं मूर्तिः सुभग! भवतो यच्छताद्वै जयन्ती // 3 // श्रीअनन्तजिनचैत्यवन्दनम् / (भुजंगप्रयातवृत्तम् ) अनन्तं जिनं पुण्यवन्तं ससन्तं, क्षिपन्तं कुकर्मोघमति हरन्तम् / जनान् रञ्जयन्तं रिपून् सञ्जयन्तं,नमामीश्वरं तं वरं मुक्तिकान्तम् 1 सदा सिद्धिसौख्यप्रियध्येयरूपं, जितानङ्गरूपं श्रिया जातरूपम् / मुनिव्रातभूपं शमापारकूपं, नमस्याम्यनन्तं जिनं योगिरूपम् / 2 / भुजंगप्रयाताऽध्वमुक्तं सुसूक्तं, जराजन्महीन महानन्दलीनम् / हतप्रीतिनाथं कृताध्यप्रमाणे, श्रयेऽनन्तदेवं सुपुण्याप्यसेवम् / 3 / श्रीधर्मनाथजिनचैत्यवन्दनम् / (स्रग्विणीवृत्तम् ) धर्मनाथं स्तुत प्रौढबुध्ध्यन्वित,-देवराजाचितं यस्य पादद्वयम् / भव्यहंसैः श्रितं पुण्यगन्धाश्रितं, राजते पद्मशोभा परिदासयत् / / धर्मनाथ ! त्वयोद्दिष्टधर्मे कृत,-वर्तनाः कर्तनायोत्कटद्वेषिणाम् / / स्युर्जनाः सेव्यसे त्वं ततःस्वार्थिभि, देवराजासुरैः केवलस्वार्थिभिः