________________ 194 1 चैत्यवन्दनसंग्रह विद्यावल्लीवर्धने वारिवाहः, कैवल्याध्वपापणे शस्तवाहः / स श्रेयांसः श्रेयसां यः सुखानिः, सश्रेयान् वः संविधत्तां सुखानि // 2 // प्रत्यादर्श श्रेयसो दैवतस्य, वधं चित्तं येन . पापं न तस्य / प्रत्याघातं संविधत्ते नरस्य, . यस्मात् श्रेयःशालिनी भक्तिरस्य // 3 // श्रीवासुपूज्यजिनचैत्यवन्दनम् / (स्वागतावृत्तम् ) वासुपूज्य ! कृतपुण्यकृतान्त, हेलया विजितरागकृतान्त ! / योगिनोऽपि विनमन्ति भवन्तं, के त्यजेयुरथवा शुभवन्तम् // 1 // या चचाल निजनिश्चलभावात् , योगिनाथततिरप्यविभावात् / यदशा विजयिनं हरिसूनुं; तं जघान वसुपूज्यसुसूनुः // 2 // स्वागताप्रभृतिबद्धनिबन्धै,-स्त्वां स्तुवन्ति कवयः शुचिबन्धैः। नो तथापि गुणवर्णनकृत्ये, पारयन्ति तव वर्णनकृत्ये / // 3 // ___ श्रीविमलजिनचैत्यवन्दनम् / (मन्दाक्रान्तावृत्तम् ) श्यामासूनो ! तव वरवचःश्रेणिपीयूषधारा,तृप्तात्मानः प्रकृतिसुभगा मानवा मानधाराः / उत्पद्यन्ते विबुधभुवनेषूत्तमेघूत्तमास्ते, यत्रानन्दप्रबललहरीप्रोल्लसत्सौख्यमास्ते // 1 // .