________________ श्रा श्रीजैनशान-गुणसंग्रह 193 श्रीसुविधिनाथचैत्यवन्दनम् / ___ (सुमुखी वृत्तम् ) कुतुकमिदं ननु पश्यत भो, भुवि जनचित्तसरोजमिदम् / सुविधिजिनस्य मुखेन्दुरयं, कुवलयवद् विशदीकुरुते // 1 // भवति न यस्य मनो रमते, भवति नरस्य न तस्य रतिः। किमु सुरपादपपादभिदि, शमुदयमेति कदाप्यविदि // 2 // तव चरणाम्बुजवद्धरति,-गणधरवन्मनुजः सुमतिः / भुवि जनतासु-मुखी भवति, भवभयतश्च जनानवति // 3 // श्रीशीतलजिनचैत्यवन्दनम् / . (चन्द्रवर्त्मवृत्तम् ) शीतलं जिनपतिं नम जनते !, संगृहाण वरपुण्यमजनतेः। एतदर्थममरा अपि सततं, पूजनं विदधते दिवि सततम् // 1 // पूजयन्ति जिनदैवतचरणा,-नार्यलोकपथनिर्मितचरणाः। प्राणिनो विधिवदादरसहितं, मन्वते च भुवि तत्खलु सहितम् // 2 // चन्द्रकान्तसमशीततनुजिन, चन्द्र ! वर्त्म सुगतेर्दददमलम् / मामनल्पमतिरहितमशरणं, नाथ ! रक्ष दुरितादनिशरणम् // 3 // . श्रीश्रेयांसजिनचैत्यवन्दनम्। . ... (शालिनीवृत्तम् ) स्फूर्जकान्तिर्ध्वस्तसंसारतान्ति, . चंचच्छीलः प्रोज्झिताऽशस्तलीलः / श्रीश्रेयांसः संचितान्तश्शमायः, कुर्यात्सौख्यं देववन्धोऽस्तमायः // 1 // की