________________ 192 1 चैत्यवन्दनसंग्रह . नाथ ! त्वया चेत्क्रियते जनोऽन्यो, धर्मोपदेशैननु मुक्तरागः। त्वं रागयुक्तोऽसि कथं नु यद्वा, माहात्म्यमेतत्खलु सर्ववित्वे / / एकाकिनापि प्रहतास्त्वयेद्धा, मोहादयः कर्मबलिष्ठयोधाः / स्यादिन्द्रवजाहतिरेकिकापि, नाशाय मौलेः कुलपर्वतादेः // 3 // ___ श्रीसुपार्श्वजिनचैत्यवन्दनम् / (प्रहर्षिणीवृत्तम् ) पृथ्वीजं शिवपुरसार्थवाहनाथं, चक्राणं प्रबलमनोभवप्रमाथम् / कुर्वाणः स्तुतिलवगोचरे सुनाथं, कुर्वे स्वं निजगुणलालसासनाथम् / देवेन्द्रैः प्रकटितभक्तिरागसारैः, संसारे पुरुषवरं हि मन्यमानैः। यो नेमे विरतगणैश्च बद्धरागै,-योनेर्मेऽविरतगतं स संरुणधु / / संप्राप्ते पुरमपुनर्भवाख्यमीशे, निर्नाथा विरहविषार्दिता प्रकामम् / नो चेत्तेऽमृतसमदर्शनं प्रबिम्ब, नो नूनं भुवि जनता प्रहर्षि __णीयम् // 3 // श्रीचन्द्रप्रभजिनचैत्यवन्दनम् / (ललितावृत्तम् ) . चन्द्रप्रभ जनिविपूतसज्जनं, चन्द्रप्रभं जनितहष्टिमजनम् / देवाधिदेवविनतं स्वशक्तितो, देवाधिदेवमभिनौमि भक्तितः / / तेजःप्रपन्नरविरूपरोचन, श्वेतःसरोजदलने विरोचनः / देयान्मतिं जिनपतिः स तामरं, यस्या जनुर्विभवनिर्जितामरम् / 2 / लोको जहर्ष तव दर्शनागमाज, ज्ञानप्रकर्षललिताजिनागमात् / किंवा धुजातमहसे न नन्दन,-मीश ! क्षमेशमहसेननन्दन ! // 3 //