________________ श्रीजैनज्ञान-गुणसंग्रह 191 न स्रग्धरावृत्तमुखरपि स्वयं, सदैव सावधविवर्णकः कविः / लभेत सत्कीर्तिभरं यथा स्तुवन् , भवन्तमल्पैरुपजातिवृत्तकैः / / 3 / / श्रीअभिनन्दनजिनचैत्यवन्दनम् / ___ (रथोद्धता वृत्तम् ) संवराख्यनरराजनन्दनं, देवराजविहिताभिनन्दनम् / धर्मदानजनताभिनन्दनं, भक्तितोऽस्मि विनतोऽभिनन्दनम् // 1 // भो जना! विषयलुप्तचेतन,-भॊजनादिसुखमिष्यते जनैः / तद्वदेव भवतापपीडिते,-निसाधनमसौ निषेव्यते // 2 // सेवनेन सततं जिनेशितु,-र्मोहराजमदनौ प्रणेशतुः / सन्नृणां भवतु वोऽपि तद्गता, तद्भटालिरनुगैरथोद्धता // 3 // ___ श्रीसुमतिनाथजिनचैत्यवन्दनम् / (द्रुतविलम्बितवृत्तम् ) सुकृतवल्लरिवर्धनवारिद,-प्रभमनल्पगुणस्य तवारिद ! / वचनमर्तिहरं भवितारकं, भवतु मेऽघहरं विगतारकम् // 1 // सुमतिमेघनरेन्द्रसमुद्भव !, विहितसर्वसुरासुरमुद्भव ! / अथ भवेद्धि भवान्मम तारणः, सजति चेद्भगवन् ! ममतारणः।२। द्रुतविलम्बितसंसरणक्रम,-मविरतं विदधे सगुणक्रम ! / . यदि रतिहिं भवेद्भवदाश्रये, ध्रुवगतिं भगवन् ! नु तदाश्रये // 3 // श्रीपद्मप्रभजिनचैत्यवन्दनम् / . . (इन्द्रवज्रावृत्तम् ) पद्मप्रभेऽम्भोजविशालनेत्रे, पद्मप्रभे भो दधतां सुभक्तिम् / ये न प्रकृष्टत्वमुचः कदापि, येन प्रनष्टा ननु तेऽपि दोषाः // 1 //