________________ 198 1 चैत्यवन्दनसंग्रह श्रीमल्लिनाथजिनचैत्यवन्दनम् / (वरतनुवृत्तम् ) . अयि हितकारक ! मल्लिनाथ ! ते, चरणयुगं सुरपोऽपि नाथते / भवजलतारणशक्तिमत्परं, द्रुतमभितारय मामतःपरम् - // 1 // अयि नतवत्सल ! नापदां पदं, भवति जनो भवतां श्रितः पदम्। किमु कृतकल्पमहीरुहार्चनः, समजनि दुर्गतकः कदाचन // 2 // भवदभिधाजपबद्धमानसे, ननु भुवि भव्यजने समानसे / वर! तनुतापूरमर्तिनाशनं, पदमितवन्नु विवर्तनाशनम् // 3 // श्रीमुनिसुव्रतजिनचैत्यवन्दनम् / (कनकप्रभावृत्तम् ). मुनिसुव्रतस्य भववारिधेः परं, तटमागतस्य तरसा विधेःपरम् / स्तवनां करोतु जनता शुभाशया, शिवसाधनाप्तिरसिका शुभाशया 1 प्रवरप्रतापपरभावभावितं, भविनं करोति परभावभावितम् / विमलं यदीयचरणद्वयं स तां, विमलां ददातु परमां रमां सताम् / / 2 / / कनकप्रभाव ! भवदागमागम !, सुकृतोदयेन भवदागमागमः। समपद्यतात्महितकारणं मम, भवनाशनं भततु तेन निर्मम ! // 3 // श्रीनमिनाथ जिनचैत्यवन्दनम् / (प्रमाणिकावृत्तम् ) सकर्णकर्णतोषिणी, हिताऽऽहिताधिसंस्कृतिः। .. सदा सदानवैः सुरै,-र्नुता नु तायिनी नृणाम् // 1 //