________________ प्रथमस्तवके] स्वभावकारणतावादखण्डनम् / . . एतेनाऽपोहवादे नियमो निरस्तः / (१)कार्यकारणभावाद्वा"इत्यादिविप्लव बोधनी एतेन-इति तृणाद्यन्यापोहात्मनैकजातीयानामेव तृणादीनाम् अग्न्यन्यापोहात्मना एकजातीयं कार्य प्रति कारणत्वमिति जात्यपेक्षयैव नियम इति बौद्धादयः, तान् प्रत्याह्न एतेन-इति / कार्यादिना कारणादीनामननुमानप्रसङ्गेनापोहजात्यपेक्षयापि कार्यकारणभावो निरस्त इति / तमेव प्रसङ्गं स्मारयति कार्य-इति / तृणादित्रयमात्रानुगतान्यनिवृत्तेरभावात् प्रत्येकमन्यनिवृत्तेयभिचारादन्यमात्रनिवृत्तेश्च तृणादिष्वप्यभावात् कार्यकारणयोरविनाभावो न सिध्येत् , तदसिद्धौ च स्वभावनियमोऽपि न सिध्यतीति / यद्वा, एतेन-विजातीयेभ्योऽप्येकजातीय कार्यदर्शनेन / अपोहवादेऽपि कार्यकारणभावनियमो निरस्तः / तृणाद्यनुगतायास्तदितरनिवृत्तेरनुपलम्भात् तस्याः सूक्ष्मायाः शक्तेर्वाभ्युपगमेन नियमाङ्गीकारे कार्यकारणयोः स्वभावतद्वतोश्वाविनाभावस्य दुर्ग्रहत्वेनासिद्धेरिति / तस्मान्नियतजातिशक्तिव्यावृत्तीनामभावात् कार्यजातिनियतिं प्रति नियतजातीयस्वभावेन कारणेन . प्रकाशः। - तृणादेरग्निं प्रति तृणाद्यन्यान्यत्वेन कारणत्वं गृह्यते, इति न व्यभिचार इति व्यावृत्तिपदार्थवादिना यत् समाहितं, तत्राप्यनुमानभङ्ग इत्यतिदिशति / ___ एतेनेति / नियमः= अविनाभावः / वह्नि विना तदन्यस्मादपि धूमसम्भवेन ततो वह्नयनुमानाभावापातात् , तृणादिवदतद्व्यावृत्त्या तत्रापि कारणत्वग्रहसम्भवादित्यर्थः / कार्यकारणभा प्रकाशिका। प्रसिद्धस्य प्रकृतेऽभावेन व्यभिचारस्यापि,प्रसिद्धेश्चेति / अत्र च सर्वत्र कल्पेऽदृष्टाद्वारकत्वं विशेषणम् / अन्यथा शालिग्रामशिलाध्वंसजन्यनारकिशरीरे व्यभिचारात् / अत एव गङ्गामरणजन्य. स्वगिशरीरे व्यभिचारवारणाय द्रव्यपदं मरणस्य संयोगध्वंसरूपत्वादिति परास्तम्। आवश्यकादृष्टाद्वारकत्वविशेषणेनैव तद्वारणादिति / तथा चेति / दुग्धनामकरसविशेषारम्भका एवावयवाः पाकजरसविशेषशालिनो यतोऽत एव दध्यारम्भका इत्युच्यन्ते। दध्नो रसविशेषात्मकरवादित्यर्थः / यद्वा दधिदुग्धपदाभ्यामत्र रसविशेषाश्रयद्रव्यमेवोक्तम् / दधित्वदुग्धत्वयोरपि परम्परासम्बन्धेन द्रव्ये वृत्तेः / यद्यपि प्रकृतासम्बद्धमिदम् / द्रव्ययोरेकोपादानकत्वे साजात्यनियम इत्यत्र दधिदुग्धयो यभिचार इति हि प्रकृतम् / तस्य चासङ्गतिरेव दधिदुग्धयो रसात्मकत्वे / तथापि दधिंदुग्धाश्रयरूपद्रव्ययोर्विजातीययोरेकोपादानत्वमेव तन्मतेऽपीति भवति प्रकृतसङ्गतिः। केचित्तु मुलाक्षेपपरमे. वैतन्मतं दधिदुग्धयो रसात्मकत्वे मूलोक्तव्य भिचारोद्धारादिति। तन्न। तदाश्रयद्रव्ययोस्तथापरत्वेऽ. पि व्यभिचारेणाक्षेपतात्पर्यकल्पनाभावात् / अत्राहुरित्यरुचौ / तद्वीजन्तु महद्दधि शुक्लरूपवद्दधीत्यादिप्रतीतौ परम्परासम्बन्धविषयत्वे गौरवमेव / अन्यथा पृथिवीत्वादेरपि गन्धादिवृत्तित्वा. पत्तिः / व्यञ्जकत्वयुक्तेस्तुल्यत्वादिति / अपोहवादे विषवे नियम इत्यन्वये कदाचिदपोहस्वीकारः स्यादत आह / नियमोऽविनाभावः, वह्निघूमयोरिति शेषः। अपोहवाद इति च सति सप्तमीति भावः / तृणादिवदिति / यद्यपि कार्यवैजात्यपक्षेऽपि न धूमसामान्याद् दहनादिसिद्धिः / धूम.. मकरन्दः।। विशेषात्मकयोर्दधिदुग्धयोरेकत्र प्रमाणसिद्धत्वादित्यर्थः / अनभिमतिबीजश्चात्र द्रव्यत्वादिसामानाधिकरण्यबुद्धेः साक्षात्सम्बन्धविषकत्वे बाधकाभावान्न परम्परासम्बन्धविषयत्वम् / अन्यथा पृथिवीत्वादेरप्यभिव्यञ्जकगन्धादिवृत्तितापत्तेरिति / . (1) कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् / अविनाभावनियमोऽदर्शनान्न तु दर्शनात् // इति / 11 न्या० कु०