________________ 80 व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाअलौ [ 6 कारिकाव्याख्याया प्रकाशः। रत्नकोषकृतस्तु, रसविशेषवृत्तिरेव दुग्धत्वादिजातिः / द्रव्यवृत्तित्वेऽपि तव्यजकस्य रसस्यावश्यकत्वात् / द्रव्यत्वादिसामानाधिकरण्यबुद्धिश्च परम्परासम्बन्धात् / तथाच दुग्धारम्भका एवावयवाः पाकजरसविशेषशालिनो दध्यारम्भका इति न विरोध इत्याहुः // . प्रकाशिका शस्यापि कदाचिन्महापटध्वंसद्वारा खण्डपटजनकतया द्रव्यपदोपादानेऽपि व्यभिचारतादवस्थ्यात् यत्त मालस्य विघ्नध्वंसद्वारा समाप्तिजनकत्वं समाप्तिश्च चरमसमुदायिरूपा एवं च मङ्गलजन्यायो द्रव्यसमाप्तौ व्यभिचारो विध्नध्वंसस्य तज्जनकत्वादिति व्यपदमिति तत्तुच्छम् / विघ्नध्वंस. स्य मङ्गलजन्यत्वेऽपि समाप्तिजनकतायां संसर्गाभावत्वस्यैव प्रयोजकत्वात् / अन्यथा कदाचिद्वि. घ्नस्य द्रव्यरूपत्वेन द्रव्यपदे दत्तेऽपि व्यभिचारतादवस्थ्यात / यत्तु प्रलयजनकादृष्टध्वंसस्य सर्गजनकतया व्यभिचार इति द्रव्यपदमिति / तदपि तुच्छम् / प्रलयात्मककालोपाधिसंसर्गाभावमा. त्रस्यैव सर्गजनकत्वात् / मिश्रास्तु दण्डप्रागभावध्वंसात्मकदण्डजन्ये घटे व्यभिचार इति द्रव्य. पदम् / न च तस्य ध्वंसत्वेन न कारणता उत्तरप्रन्थविरोधः ध्वंसत्वनियतकारणताकत्वस्योत्तरप्रन्थार्थत्वात् / अन्यथा दृष्टान्तासङ्गतेः, न हि महापटध्वंसस्य ध्वंसत्वेन कारणत्वं तथाहि खण्डपंट प्रति समानाधिकरणपटवसत्वेन कारणत्वम् यावत् तादृशपटध्वंसत्वेन वा पूर्वोत्पन्नयावत्तादृशपटध्वंसत्वेन वा, आये द्वितीयखण्डपटोत्पत्यनन्तरं तत्काले वा तृतीयखण्डपटोत्पत्तिः कालवि. लम्बेन तु विलम्वे ध्वंसस्याहेतुत्वमेव कुतो ध्वंसत्वेन हेतुत्वशङ्का / द्वितीये द्वितीयखण्डपटोत्पत्तिर्न स्यात् / तृतीयखण्डपटध्वंसस्याभावात् / तृतीये संसर्गाभावत्वमेव जनकतावच्छेदकं, वारणीययोरत्यन्ताभावप्रागभावयोः समानाधिकरणपूर्वोत्पन्नपदाभ्यामेव वारणात / यदि च ध्वंसत्वसंसर्गाभावत्वयोविशिष्टयोस्समनियतत्वे शरीरतोल्ये च संसर्गाभावत्वेन जनकत्वे मानाभावः। तथापि मास्त दृष्टान्तासङ्गतिः / तथा विवक्षाबीजं द्रव्यपदसार्थकत्वायैव तथाविवक्षास्ति / नच दण्डप्रागभावो. पादानाप्रसिद्धया व्यभिचाराप्रसिद्धः कथं द्रव्यपदस्य तद्वारकता। नियतसामानाधिकरण्यरूपायाव्या. प्तेरप्रसिया प्रहासम्भवेन व्याप्तिग्रहौपयिकत्वाद्विशेषणस्य समानोपादानकत्वस्य व्यापकस्यान्यत्र मकरन्दः। वावश्यं वाच्यतया तत एव तदुद्धारात् / अन्यथा ब्राह्मणशरीरशालग्रामध्वंसादेरधर्मद्वारा नारकिशरीरजनकतया व्यभिचारतादवस्थ्यापत्तेः / अन्ये तु प्रागभावध्वंसात्मककपालजन्यघटे व्यभिचारवारणाय तदुपादानम् / न च ध्वंसत्वेन जनकत्वविवक्षयैव तद्वारणमिति वाच्यम् / ध्वसत्वेनेत्यस्य ध्वंसत्वनियताया जनकताया विवक्षितत्वादित्यर्थात् , तावतैव प्रतिबन्धकाभावजन्ये व्यभिचारस्य निरासात् / यद्यपि प्रागभावोपादानाप्रसिद्ध्या व्यभिचारोऽपि तत्राप्रसिद्ध इति कथं तद्वारणाय तत् , तथापि नियतसामानाधिकरण्यरूपव्याप्तिग्रहीपयिकतया सार्थकत्वम् / यद्वा, य द्रव्यध्वंसजन्यं यद्व्यं तदुभयमेकोपादानकमित्यत्र तात्पर्यम् / एकोपादानकत्वञ्चान्यत्र प्रसिद्धमिति तत्र व्यभिचारप्रसिद्धिरिति वदन्ति / यत्तु, अवयवसंयोगध्वंसजन्यखण्डपटे व्यभिचारवा. रणाय द्रव्यपदम् / न च तत्र साध्यमस्त्येवेति वाच्यम् / तत्संयोगाश्रयतन्तूनामपि नाशे तद्भि नमात्रसमवेतखण्डपटे तथापि व्यभिचारादिति। ततुच्छम् / तस्य महापटध्वंसोपक्षीणत्वेन ख. ण्डपट प्रत्यहेतुत्वात् / अन्यथा तन्तुनाशजन्यखण्डपटमादाय दोषतादवस्थ्यापत्तेः / एतेन जन्यत्वेन प्रयोज्यत्वमात्रं विवक्षितमित्यपास्तम् / तथाचेति / दुग्धरूपरसविशेषारम्भका एवावयवाः पाकजरसविशेषशालिनो यतोऽत एव दध्यारम्भकाः / तस्य रसविशेषात्मकत्वादित्यर्थः / यद्वा, दुग्धादिपदं द्रव्यपरमेव / दुग्धत्वादेः परम्परासम्बन्धेन द्रव्यवृत्तित्वाभ्युपगमादिति / न विरोध इति / नैकोपादानकत्वविरोधः / रस