________________ प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् / प्रकाशः। भवति तत्तदुपादानोपादेयं यथा महापटध्वंसजन्यः खण्डपट इति नियमाद् दुग्धध्वंसजन्यं दधि दुग्धोपादानोपादेयम् / न च प्रतिबन्धकद्रव्यध्वंसजन्यद्रव्येण व्यभिचारः। ध्वंसत्वेन कारणत्वस्य विवक्षितत्वात् / प्रतिबन्धकाभावस्य च संसर्गाभावत्वेन हेतुत्वात् / न च स्थूलदुग्धध्वंसजन्य दधि न तदवयवजन्यमिति व्यभिचारः। परमाणुश्च न तदवयव इति वाच्यम् / साक्षात्परम्परासाधारणोपादानोपादेयत्वस्य विवक्षितत्वात् // प्रकाशिका कमुपादानान्तरकल्पनागौरवमेवावसेयम् / कपालध्वंसजन्ये घटध्वंसे व्यभिचार इति चरमद्र. व्यपदम् प्रतिबन्धकाभावजन्ये द्रव्ये व्यभिचार इति ध्वंसपर्यन्तमुपात्तम् / न च प्रतिबन्ध कध्वंसस्यापि जनकतया तद्दोषतादवस्थ्यमिति वाच्यम् / ध्वंसत्वेन जनकत्वस्याने विवक्षणात् / न च महापटस्य प्रतिबन्धकतया वत्संसर्गाभावत्वेनैव हेतुतेति दृष्टान्तासिद्धिरिति वाच्यम् / तदत्यन्ताभावस्याजनकतया तत्तत्संसर्गाभावत्वेनाहेतुत्वात् / अन्यथा नित्यस्य स्वरूपयोग्यस्यात्यन्ताभावस्य कदाचित् फलोपधानापत्तेः। न चैवं प्रथमखण्डपटोत्पत्तिर्न स्यादिति वाच्यम् / इष्टत्वात् / पटप्रतीतेस्तत्र तथाविधसंस्थानयोगितयाप्युपपत्तेः / वस्तुतः समानाधिकरणपट. नाशसमानकालीनपटत्वावच्छिन्नं प्रति समानाधिकरणपटनाशत्वेन कारणतेति दृढतरवेमाभिघातजन्यद्वितन्तुकादिनाश एव त्रितन्तुकादिपटं प्रति कारणमिति सन्नपि महापटप्रागभावस्तत्रान्यथासिद्धः / नचैवं महापटेऽपि पटध्वंसजन्यतया खण्डपटव्यवहारापत्तिः। जनकीभूतध्वंसप्रतियोगिन्यूनसमवायिकारणकस्यैवावस्थितसंयोगजन्यस्य खण्डपटपदार्थत्वात् / एवं च यदि द्वितन्तुकादौ खण्डपटव्यवहारस्तदा गौणो द्रष्टव्यः / द्रव्यप्रकाशे च महापटसंसर्गाभावत्वेन कारणत्वाभिधानमेकदेशिमताभिप्रायेण / प्रथमद्रव्यपदं तु कामिनीचरणसंयोगध्वंसजन्याशोकपुष्पे व्यभिचारवारणाय / यत्तु मिथ्याज्ञानध्वंसजन्यकायव्यूहे व्यभिचारवारणाय प्रथमं द्रव्यपदमिति तच्चि न्त्यम् / तत्त्वज्ञानस्यैव प्राथमिकतया भावरूपतया च कायव्यूहकारणत्वात् / केचित्तु निष्कासिततन्तुसंयोगध्वंसजन्ये खण्डपटे तन्तुसंयोगोपादानानुपादेये व्यभिचारवारणाय द्रव्यपदमिति / तद. पि तुच्छम्। संयोगध्वंसस्य महापटध्वंसमात्रजनकतयाखण्डपटं प्रत्यन्यथासिद्धिः। अन्यथा तन्तुना मकरन्दः। नचैवं दृष्टान्तासिद्धिः, महापटस्य प्रतिबन्धकतया तदभावस्य संसर्गाभावत्वेनैव हेतुत्वादिति वाच्यम् / महापटं विनाऽपि खण्डपटोत्पादापत्तेः / अत्यन्ताभावस्य नित्यस्य स्वरूपयोम्यस्य सहकार्यवश्यम्भावापत्तेश्च / नचैवं तत्प्रागभावस्याहेतुत्वे महापटोत्पत्तेः प्राक् खण्डपटो न स्यादिति तन्तुमात्रमुपलभ्येतेति वाच्यम् / इष्टापत्तेः। तथाविधसंस्थानयोगितया पटव्यपदेशः। यद्वा, द्वितन्तुकादिमहापटध्वंसजन्य एव त्रितन्तुकादिः पटो जायते। मूर्तीनां समानदेशताविरोधेन वेमायभिघाताद् द्वितन्तुकादिनाशे त्रितन्तुकायुत्पादाभ्युपगमात् / तत्र च सर्वतन्तुकमहापटप्रागभावः सन्नप्यन्यथासिद्ध एव / एवञ्च त्रितन्तुकादौ पटध्वंसजन्यपटत्वेन खण्डपटत्वं, पटजनकध्वंसप्रतियोगिपटत्वेन महापटत्वश्च न विरुद्धम् / द्वितन्तुके च यदि खण्डपटव्यपदेशः, तदाऽ प्रिमापेक्षया परिमाणापकर्षनिबन्धनो गौणः / वस्तुतः प्रथमपटन्यूनसमवायिकारणक एव खण्ड. पट इति त्रितन्तुकादीनामपि महापटत्वमेवेति तत्रापि गौण एव तद्व्यपदेश इति / द्रव्यप्रकाशे च संसर्गाभावत्वेन तस्य कारणत्वामिधानं मतान्तरेणेति मन्तव्यम् / आयद्रव्यपदं किमर्थमित्यवशिष्यते / तत्र ब्रूमः / तत्त्वसाक्षात्कारजन्यमिथ्याज्ञानध्वंसस्य ध्वंसत्वेन कायव्यूह प्रति जनकतया व्यभिचारवारणाय तदिति / यत्तु प्रयागमरणस्य संयोगध्वंसात्मकस्य स्वगहेतुत्वश्रुतेः स्वगिशरीरजनकतया तत्र व्यभिचारवारणाय तदिति / तन्न / अदृष्टाद्वारकत्वस्य साक्षाज्जनकत्वस्य