________________ * व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाञ्जलौ [6 कारिकाव्याख्यायो प्रकाशः। परमाणौ वृत्तेः, द्रव्यत्वस्यापि द्रध्यत्वसाक्षाद्याप्यजातित्वात् / तद्भिन्नतद्व्याप्याव्याप्यत्वे सति तयाप्यत्वस्यैव साक्षाझ्याप्यत्वरूपत्वात् / नचान्ये परमाणवस्तत्रादृष्टाकृष्टा दध्यारम्भकाः। तदुत्कर्षाधनुविधानानुपपत्तेरुक्तत्वात् / दध्यर्थं दुग्धोपादानुपपत्तेश्च / अपि च, यद्रव्यध्वंसजन्यं यद् द्रव्यं प्रकाशिका। द्रव्यत्वमेव परमाणौ न वर्तत इत्यत आह-द्रव्यत्वस्यापीति / तदुभिन्नेति / घटत्वस्यापि द्रव्यत्वसाक्षाव्याप्यत्वं मा भूदिति सत्यन्तम्। तस्य तद्व्याप्यजात्यव्याप्यत्वमर्थः,अन्यथोपाधिमादायासम्भवापत्तेः / तत्रापि पृथिवीत्वं द्रव्यत्वं च द्रव्यत्वव्याप्यमादायासम्भव इति तद्भिमपदं तच्छद्वश्वव्याप्यव्यापकत्वाभिमतोभयपरामर्षकः, सत्ताया द्रव्यत्वसाक्षाद्व्याप्यत्वं मा भूदिति तव्याप्यत्वं विशेषणम्। नन्वेवमात्मत्वादौ जात्यन्तराव्यापकेऽव्याप्तिः,तभिन्नतद्व्याप्यजात्यप्रसिद्धेरिति / अत्र केचित् द्रव्यत्वसाक्षाव्याप्यस्यैवात्र लक्ष्यतया उक्तव्याप्तेरदोषत्वमिति / वस्तुतो व्याप्यपदस्याःयापकपरतया तदव्यापकजात्यव्याप्यत्वं सत्यन्तार्थ इति व्यधिकरणजातिमादायैव प्रसिद्धिः। अत्राद्यं तत्पदं साक्षाव्याप्यत्वाभिमतपरम् / अन्यच्च व्यापकत्वाभिमतपरम् / मिश्रा. स्तु खण्डशः प्रसिद्धया तव्याप्यजातित्वाभावात्तदुभयभिन्नयावत्स्वव्यापकधर्माकत्वमुक्रलक्षणार्थः / अत्र चाद्यं तत्पदं व्यापकत्वाभिमतपरम् / तदुभयपदं व्याप्यव्यापकत्वाभिमतपरम् स्व. पदं च व्याप्यत्वाभिमतपरम् / एवं च स्वव्यापकमुपाधिमादाय चरमजातौ प्रसिद्धिरिति वद. न्ति / वयं तु तद्भिन्नेत्यत्र तत्पदं व्यापकत्वाभिमतपरं व्याप्यपदं प्रथमं तत्समानाधिकरणात्यन्ताभावप्रतियोगिपरं द्वितीयव्याप्यपदन्तु न्यूनवृत्तिपरम् / एवं च द्रव्यत्वभिन्नद्रव्यत्वसमा. नाधिकरणात्यन्ताभावप्रतियोगिपृथिवीत्वादिन्यूनवृत्तित्वाभावः पृथिवीत्वे / घटत्वभिन्नघटत्वसमानाधिकरणात्यन्ताभावप्रतियोगिगुणत्वन्यूनवृत्तित्वाभावो घटत्वे चरमजातो, साधारणतदधिकरणत्तित्वे सति यकिञ्चित्तदधिकरणावृत्तेन्यूँनवृत्तिपदार्थत्वादिति ब्रूमः / उत्कर्षाद्यानुविधानं दध्यथं दुग्धोपादानं च निमित्तकारणत्वेऽप्युपपद्यत इत्यरुचेराह / यद्रव्येति / अत्रापि विपक्षे वाध मकरन्दः / प्रसिद्धिरिति भावः / सिद्धसाधनमिति भाव इत्यन्ये / तर्हि द्रव्यत्वमपि तत्र न वर्त्ततेत्यत आहद्रव्यत्वस्यापीति / तद्भिन्नेति / तद्वयाप्यत्वमात्रं परम्पराव्याप्येऽतिव्याप्तमित्यत उक्तं सत्य. न्तम् / तथापि तझ्याप्याऽव्याप्यत्वमसम्भवि, पृथिवीत्वादेव्यत्वादिव्याप्यीभूतद्रव्यत्वादिव्याप्य. स्वात् , द्रव्यत्वादिव्याप्यीभूतपृथिवीत्वादिव्याप्यत्वाच्च / अभेदेऽपि व्याप्तिसत्त्वादित्यत उक्तं, तद्भिन्नेति / साझाझ्याप्यव्यापकाभिमतोभयभिन्नेत्यर्थः। सत्तादेरपि द्रव्यत्वादिसाक्षायाप्यत्वापत्तिरिति चरमं तद्व्याप्यत्वमुक्तम् / न च तदुभयभिन्नद्रव्यत्वादिव्याप्यगुणवत्त्वादिव्याप्यतया पृ. थिवीत्वादावसम्भव इति वाच्यम् / तद्भिन्नतद्वयाप्यजात्यव्याप्यत्वे सतीत्यर्थात् / नन्वेवं चरमजातेः स्वसाक्षाद्वयाप्यत्वं न स्यात् / स्वभिन्नस्वव्याप्यजात्यप्रसिद्धेः / न च स्वस्य स्वसाक्षाद्वथाप्यत्वं न विवक्षितमिति वाच्यम् / द्रव्यत्वस्यापि स्वसाक्षाद्वयाप्यत्वमित्युपक्रमविरोधादिति चेत् / मैवम् / द्रव्यत्वसाक्षाद्वयाप्यत्वमात्रस्यैव प्रकृतत्वेन लक्ष्यत्वादित्याहुः / वस्तुतस्तु, तद्भिन्नतदव्यापकजात्यव्याप्यत्वे सति तद्वयाप्यत्वं विवक्षितम् / तत्पदं साक्षाद्वयाप्यत्वाभिमतमात्रपरम् / अन्यच्च व्यापकत्वाभिमतपरमित्यवधेयम् / यद्रव्येति / घटध्वंसजन्ये घटरूपादिध्वंसे व्यभिचारादाह चरमद्रव्यपदम् / यद्याभावजन्यमिति कृते प्रतिबन्धकद्रव्यात्यन्ताभावजन्ये द्रव्ये व्यभिचारः स्यादिति ध्वंसपर्यन्तमुपातम् / न च तद्ध्वंसस्यापि जनकत्वाद् दोषतावदस्थ्यम् / ध्वंसस्वेन जनकत्वस्याग्रे विवक्षणात् /