________________ فی प्रथमस्तवके] . स्वभावकारणतावादखण्डनम् / प्रकाशः। न च यद्दधि न तद् दुग्धारभ्यमिति स्थूले दर्शनाद्दधिव्यणुकं न दुग्धत्वाश्रयपरमाण्वारभ्यमिति वाच्यम् / दधिद्व्यणुकारम्भके परमाणौ दुग्धत्वस्याऽवृत्तेः। सत्तान्यद्रव्यत्वसाक्षाद्व्याप्यजातेरेव प्रकाशिका। . व्यभिचारादितिचेन्न ।तथापि पात्रोत्कर्षप्रयुक्तपरिमाणोत्कर्षे दध्नि व्यभिचारादिति मैवम् / तदजनकमित्यस्योपादीयत इत्यत्र विशेषणत्वात् / नचैवमुक्तविशेषणेनैव दण्डवारणे उत्कर्षपदवैयर्थ्यम्।दण्डावयवमादाय व्यभिचारवारकत्वात् / नच पात्रावयवमादाय तथापि व्यभिचार इति वाच्यम् / आधारत्वेन तस्यापि जनकत्वात् / दृष्टान्तश्चात्रमहापटमुपादाय खण्डपटो द्रष्टव्यः / नचैवमिन्धनमादाय वह्नौ व्यभिचार एव नेति तवृत्तीत्यादि व्यर्थमिति वाच्यम् / शरीरोकर्षार्थकजलोत्कर्षस्थले व्यभिचारवारकत्वात् / अप्रिमप्रकाशे च पटोत्कर्षार्थोपाततन्तूत्कणेत्यत्र तन्तुपदमंशुपरमतो च तेन विरोधः / केचित्तु तदुपादानोपादेयत्वं तद्योग्यतामात्रमिति पात्रोपादांनोपादेयत्वं दध्नो वर्तत एवेति न व्यभिचार इत्याहुः। उत्कर्षपदं च तन्मते सम्पातायातमिति द्रष्टव्यम् / उभयमतेऽपि च उद्भूतस्पर्शस्येति विशेषणम् , तेनालोकोत्कर्षार्थोपात्तदीपोत्कर्षस्थले न व्यभिचारः। नचाइँन्धनोत्कर्षे घूमोत्कर्षार्थमुपाते सति व्यभिचार इति वाच्यम् / तत्र हीन्धनमात्रस्य न तदर्थमुपादा. नमपित्वाट्टैन्धनस्य, आर्द्रता च जलसम्बन्धरूपेति तवृत्तीत्यादिपदेनैव वारणात् / मिश्रास्तु यदथं यदुपादीयते तत्तदुपादानोपादेयमित्यत्र वैजात्यं गुणविरोधश्च बाधकमिति विशेषणाभ्यां तदुभयाभावोपवर्णनं बाधकसामान्याभावपरमिति न क्वापि व्यभिचार इति वदन्ति ।न दुग्धत्वेति। परमाणुग्रहणं सम्पातायातम् ,न चाग्रेतनसिद्धसाधनाभावः. द्वथणुकारम्भकस्य परमाणुतानियमेन तत्सम्भवादिति मिश्राः / केचित्तु कालं दुग्धत्वाश्रयमादाय बाध इति परमाणुपदमित्याहुः / दधिद्वयगुकेति / तथाच प्रतियोग्यप्रसिद्धथा साध्याप्रसिद्धिरिति भावः / मिश्राणां तुमते परमाणुपदत्यागे सिद्धसाधनमिति भावः / नच यद्दधि तन्न दुग्धारम्भकारभ्यमिति व्याप्तिः।अप्रयोजकत्वादिति ध्येयम् / सत्तान्येति / सत्तान्यपरमाणुवृत्तिजाते व्यत्वसाक्षात्व्याप्यत्वनियमादित्यर्थः / नन्वेवं मकरन्दः। जलस्यापि तथाभावेनौदर्य्यानलदाह्यमात्रस्य रसवन्मात्रस्य तथाभावादिति समादधुः / तच्चि. न्त्यम् / तत्र पक्षसमत्वेन व्यभिचाराभावात्तद्विवक्षाया वैयर्थ्यात्। आहारपरिणतिभेदेन शरीरभेदाभ्युपगमाच्च / किञ्चैवमपि घटोत्कर्षार्थोपादीयमानदण्डोत्कर्षेण व्यभिचारः। यदि च योग्यता. विवक्षायां दण्डारम्भकपरमाणुना कदाचिद्धटारम्भात् साध्यसत्त्वे न व्यभिचारः, तदा भक्ष्यारम्भकपरमाणुनापि शरीरारम्भाविरोधः / अपि चालोकोत्कर्षार्थोपादीयमानोत्कृष्टप्रदीपादौ व्यभिचारः। तस्मादुद्भूतस्पर्शस्येत्यपि विशेषणं देयम् / यद्यपि योग्यताविवक्षायां दण्डघटवत् कदाचित् द. धनोऽपि दुग्धोपादानोपादेयत्वे विवक्षितसाध्यस्य फलोपधानगर्भस्य न सिद्धिः। तदविवक्षायां घ. टोत्कर्षार्थकदण्डोत्कर्षेण व्यभिचार एव / तथापि परिमाणोत्कर्षनिबन्धन एवोत्कर्षो विवक्षितः / घटे च स न दण्डोत्कर्षनिबन्धनः, किन्त्ववयवोत्कर्षनिबन्धन एवेत्येके / एतदनुशयादेव यद्व्येत्यादिकमित्यन्ये / यदर्थ यदुपादीयते तत्तदुपादानोपादेयमित्यत्र वैजात्यं गुणविरोधश्च बाधकमिति प्रकृते तदुभयाभावोपवर्णनम् / उपलक्षणतया च बाधकाभावे सतीत्यत्र तात्पर्यमिति न व्य. भिचारशङ्केत्यप्याहुः। न दुग्धत्वेति / दुग्धत्वाश्रयस्य कालस्य जनकत्वाद् बाध इत्यत उक्तं, परमाण्विति / एतेन, परमाणुग्रहणं स्वरूपकथनाय / न चाप्रेतनसिद्धसाधनासम्भवः, द्वथणुकारम्भकस्य परमाणुत्वनियमेन तत्सम्भवादित्यपास्तम् / दधियणकेति / तथाच प्रतियोग्यप्रसिद्ध्या साध्या