________________ 76 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 6 कारिकाव्याख्यायो प्रकाशः। कर्षयोर्दध्युत्कर्षापकर्षप्रयोजकत्वानुपपत्तिः / अनुपादानोत्कर्षादेरनुपादेयोत्कर्षाद्यप्रयोजकत्वात् / न चेन्धनोत्कर्षादिना वह्नस्तथात्वेन व्यभिचारः। यस्योद्भूतरूपस्योत्कर्षार्थ तवृत्तिद्रव्यत्वव्याप्यजातीयं यदुपादीयते, तत् तदुपादानोपादेयमिति व्याप्तेः। इन्धने तु तवृत्तिद्रव्यत्वव्याप्यजातेरभावः / उद्भूतरूपस्येति विशेषणान्नानुभूतरूपवद्वयुत्कर्षार्थमुपात्तवह्नयुत्कर्षेण व्यभिचारः। उपादेयता च साक्षात्परम्परासाधारणी विवक्षितेति न पटोत्कर्षार्थीपात्ततन्तूत्कर्षेण व्यभिचारः। प्रकाशिका। विशेषः स्यादित्यत्रेष्टापत्तिरेव, कदाचित् तत्सत्त्वात् / अत एव मधुराम्लादिरससमवायिकारणतावच्छे. दकतया पृथिवीत्वसिद्धिरिति वर्द्धमानचरणाः / एवं च व्यञ्जकासत्त्व उपाधौ साधनव्यापकत्वमिति भावः। यस्येति अत्रानुद्धतरूपभर्जनकपालीयवन्यत्कर्षार्थमपादीयमान उद्धतरूपोत्कृष्टवौ व्यभिचार इति उद्भूतरूपस्येति विशेषणम् / वन्द्युत्कर्षार्थमुपादीयमाने उत्कृष्टेन्धने सति व्यभिचार इति तद्वृत्तीत्यादि / इन्धनेऽपि वह्निवृत्तिसत्तासत्त्वेन स एव व्यभिचार इति द्रव्यत्वव्याप्येति / वह्नीन्ध नान्यतरत्वमादाय स एव दोष इति जातिपदम्। व्याप्यत्वञ्च भेदगर्भमतो न द्रव्यत्वमादाय स एव व्यभिचारः।अतितप्ततैलस्थोद्भूतरूपदहनोत्कर्षार्थमुपादीयमाने भर्जनकपालीयोत्कृष्टानुद्भूतरूपवह्नौ सति व्यभिचार इति। उप दीयत इति। उपादानम्-प्रवृत्तिः सा, चाप्रत्यक्षेतस्मिन् न सम्भवतीति भावः। अत एव घटोत्कर्षार्थके तत्परम्परारम्भकपरमाणौन व्यभिचारः। न च दुग्धस्य दधिप्रतिबन्धकतया न तदर्थकत्वमिति वाच्यम् / नियमतो यदनन्तरं यद् भवति तस्यैव तदर्थकत्वात् / अत एवोद्भूतरूपस्येत्यादि विशेषणं सार्थकम् / अन्यथोद्भूतरूपस्यानुद्भूतरूपवह्नयुत्कर्षार्थकत्वाभावे तद्वैयर्थ्यात् / यदि चोद्भूतरूपस्यापि तदर्थकत्वं तदानुद्भूतरूपे व्यापकसत्त्वेन व्यभिचारप्रसङ्गात् / घटार्थमुपादीयमाने दण्डस्थले व्यभिचार इति उत्कर्षपदम् / उपादानत्वमुपादेयत्वञ्च साक्षात्परम्परासाधारणमित्याकर एवं व्यक्तमतो न दध्युत्कर्षार्थोपात्तस्थूलदुग्धे व्यभिचारः / ननु शरीरोत्कर्षार्थोपात्तोत्कृष्टभक्ष्ये सति व्यभिचारः। अथ तुल्ययुक्तिकतया तत्रापि साध्यसत्वान्न व्यभिचारः, अत एव उपादेयतावच्छेदक धर्मावच्छित्रस्य तवृत्तिदव्यत्वव्याप्यजातीयत्वं विवक्षितम् / नच भक्ष्यस्थले तत् उपादेयतावच्छेदकस्य जलसाधारण्येन तदवच्छिन्ने तञ्जातीयत्वाभावादिति मिश्रमतमपास्तम् यथाश्रुत एवा मकरन्दः। तयञ्जकत्वादिति / तथाच साधनव्यापकत्वमुपाधेरिति भावः / यस्येति / वहयुत्कर्षार्थमुपादीयमानेन्धने व्यभिचारादाह / तवृत्तीति / सत्तामादाय दोषतादवस्थ्यादाह / द्रव्यत्वव्याप्येति / व्याप्तिश्च भेदगर्भेति न द्रव्यत्वमादाय दोषतादवस्थ्यमिति भावः / तथाऽपि तैलोस्थितोमूतरूपदहनार्थकेऽनुद्भतरूपतैलस्थदहने व्यभिचारः / अनुभृतान्नोद्भुतमिति मतेनेवास्य कृतत्वादित्यत आह / उपादीयत इति / उपादानं= प्रवृत्तिः / तस्य चाप्रत्यक्षत्वान्न तद्योग्यतेति न दोषः। अत एव घटाद्युत्कर्षार्थके मृदारम्भके परमाण्वादौ न व्यभिचारः / न चैतन्मते अनुभृतरूपस्योद्भूतरूपार्थकत्वाभावादेव न व्यभिचार इति किं तद्वारणार्थ विशेषणोपादा. नेनेति वाच्यम् / नियमतो यदनन्तरं यद्भवति तस्यैव तदर्थकत्वेन विवक्षितत्वात् / तस्य च तत्सहचरितावयवान्तरमादाय तत्रापि सत्त्वात् / अन्यथा दुग्धस्यापि दधिप्रतिवन्धकतया तथात्वं न स्यात् / ननु धूमार्थोपादीयमानार्दैन्धनोत्कर्षे व्यभिचारः। न चाऽऽत्वं जलसम्बन्धो, न तद्विशिष्ट तवृत्तिद्रव्यत्वव्याप्यजातिरस्तीति वाच्यम् / एवमपि शरीरोत्कर्षार्थोपादीयमानभक्ष्योस्कर्षे व्यभिचारावारणादित्याशङ्कथ उपादेयतावच्छेदकधर्मावच्छेदेन तवृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं विवक्षितम् / न च शरीरोत्कर्षार्थोपादीयमाने उपादेयतावच्छेदकावच्छिन्नं पार्थिवमात्रम् ,