________________ प्रथमस्तवके ] स्वभावकारणतावादखण्डनम् / प्रकाशः। दध्यारम्भकः परमाणुन दधित्वाश्रयः नित्यपार्थिवत्वात् पटारम्भकपरमाणुवदित्यनुमानस्य सत्वात् / न च व्यञ्जकाऽसत्त्वमुपाधिः ? दधित्वाश्रयपरमाणौ च रसविशेषवत्त्वं दधित्वव्यञ्जकम. स्तीति वाच्यम् / प्रतिकूलतकेंण रसविशेषवदवयवित्वस्य तद्व्यञ्जकत्वात् / किञ्चैवं दुग्धोत्कर्षाप प्रकाशिका। न च क्षीरपरमाणुतदन्यपरमाणुविषयकत्वसम्भवेन पूर्वोक्तं लाघवं सहकारि वक्ष्यमाणञ्चानुमान न साक्षात्परमाणुसाधकमिति वाच्यम् / दधियणुकं ससमवायिकारणकं भावकार्यत्वादित्यनु. मानस्य लाघववोपकार्यस्य वक्ष्यमाणानुमानोपकारतया न च लाघवोपकार्यमानाभावः / प्रकृतानुमानस्यैव तादृशस्य सत्वादिति ग्रन्थाशयात् / नित्यपार्थिवत्वादिति / पार्थिवपदं कालादौ व्यभिचारवारणाय दधित्वाधारत्वाभावस्य साध्यत्वात् / नच सोऽप्यभावः कालेऽस्त्येवेतिसाध्यसत्त्वान्न व्यभिचार इति वाच्यम् / तथासति हेतोः साध्याभावसामानाधिकरण्यात् / नच सोऽभावः प्रतियोगिसमानाधिकरणतया न व्यभिचारप्रयोजक इति वाच्यम् / स्वसत्ताविरोधिप्रतियोगिसत्तासमानाधिकरणस्य प्रतियोगिसमानाधिकरणपदार्थत्वात् / संयोगाभावस्य चैकावच्छेदेन स्वसत्ताविरोधिसंयोगसत्तासामानाधिकरण्यादिति दिक् / दधित्वाश्रयेति / तत्त्वेनाभिमतपरमाणावित्यर्थः / प्रतिकूलतकणेति / पटवृत्तित्वापादकपूर्वोक्ततर्केणेत्यर्थः / एवं च गौरवमप्यवयवित्वप्रवेशे प्रामाणिकतया न.दोषाय / न वा गन्धवदवयवित्वव्यञ्जकत्वप्रतिवन्दिः। तत्र गौरवस्याप्रामाणिकत्वात् / किं च तत्रावयवित्वप्रवेशे पृथिवीत्वस्य परमाणावभावे गन्धस्याप्यभावः स्यात् / पृथिवीत्वस्यैव तत्समवायिकारणतावच्छेदकत्वात् / तथाच परमाणौ गन्धाभावे तदारब्धपरम्पराया अपि निर्गन्धत्वापत्तिरसमवायिकारणाभावात् / न च रसविशेषसमवायिकारणतावच्छेदकदधित्वा. भावे परमाणौ रसविशेषाभावे तदारब्धपरम्पराया अपि तादृशरसविशेषोन स्यादिति वाच्यम्।पृथिवीत्वस्यैव तादृशरससमवायिकारणतावच्छेदकत्वात् अन्यत्रच नरसविशेषोत्पत्तिः,सहकारिविरहात्। परमाणावपिन सर्वदा तदुत्पत्तिः, अव्यवहितदुग्धध्वंसादिसहकारिविरहात्। सर्वत्र च परमाणौ तादृप्रस. मकरन्दः / ति। न चेति / यद्यपि प्रमाणविषयीभूतविषयस्य लाघवस्य सहकारितया वक्ष्यमाणस्य न लाघ. वोपकार्यत्वं तथाप्युक्तस्य भावकार्यस्य तथात्वम् / तथाच तेनैव तदवयवतायां सिद्धायामेतस्य कथञ्चित्तदुपकार्यत्वम् / एवञ्च लाघवोपकार्योपकार्यमानाभावो न चेति फक्किकार्थ इत्याहुः / नित्येति / एतच्च दध्यवयविनि व्यभिचारवारणाय / काले व्यभिचारवारणाय, पार्थिव. स्वादिति / न च समवायगर्भत्वम् , अन्यथा परम्परासम्बन्धमादाय व्यभिचारापत्तेरिति वा. च्यम् / एवमपि साक्षात्सम्बन्धगर्भस्य निर्दोषत्वात् / दधित्वाश्रयेति। दधित्वाश्रयाभिमतपरमाणावित्यर्थः / अवयवित्वप्रवेशे गौरवादिति भावः। प्रतिकूलेति / पूर्वोक्तप्रतिकूलतर्केणेत्यर्थः / तथाच गौरवमपि प्रामाणिकमिति भावः। अत एव गन्धवदवयवित्वस्य पृथिवीत्वव्यञ्जकत्वे तदपि परमाणौ न वर्तेतेति प्रतिबन्दिः परास्ता, तत्र गौरवस्य प्रामाणिकत्वाभावात् / किश्चैवं गन्धसमवायिकारणतावच्छेदकपृथिवीत्वस्याभावे निर्गन्धत्वापत्तौ तदारब्धकार्यस्य निर्गन्धत्वप्रसङ्गात् / नचैवं दधिस्वव्याकरसविशेषसमवायिकारणतावच्छेदकतया दधित्वं परमाणावपि, अन्यथा पर. माणौ तसाभावेन तदारब्धदन्यपि तदभावापत्तेरिति वाच्यम् / पृथिवीत्वस्यैव तदवच्छेदकस्वात् / घटादौ सहकारिविरहे तदनुत्पादात् / तदारम्भकपरमाणौ च तदुत्पत्तिरिष्टव / अत एव तेन कदाचिद् दध्यारम्भोऽपि / अत एव मधुराम्लरससमवायिकारणतावच्छेदकतया पृथिवीत्व. सिद्विरुका वर्द्धमानचरणैरिति दिक् /