________________ 74 व्याख्यात्रयोपेतप्रकाशवोधनीयुते न्यायकुसुमाजलौ [ 6 कारिकाव्याख्यायो प्रकाशः। तदवयविवृत्तित्वे सति तदवयववृत्तित्वस्य विवक्षितत्वात्, द्वयणुकवृत्तिजातित्वस्य लिङ्गत्वाद्वा / न च दधित्वं न परमाणुवृत्ति पृथिवीत्वव्याप्यजातित्वात् पटत्ववदिति वाच्यम् / व्यजकाभावस्योपाधि. त्वात् / पटत्वव्यञ्जकसंस्थानविशेषस्य परमाणावभावादधित्वव्यञ्जकरसविशेषस्य चतत्र सत्त्वात्। न च रसविशेषवदवयवित्वं तद्व्यञ्जकं, गौरवात् / गन्धवदवयवित्वस्य पृथिवीत्वव्यञ्जकत्वे तस्यापि परमाणाववृत्त्यापत्तेश्च / यद्वा, दधिद्व्यणुकं दधित्वाश्रयोपादानकं, कार्यत्वे सति दधित्वात् / स्थूलदधिवत् / न च कार्यत्वं व्यर्थ, स्वतोऽनैकान्तिकपरिहारार्थत्वात् / दधिधणुकोपादानं वा न क्षीरारम्भकं, दध्यवयवत्त्वात् दध्यारम्भकदध्यवयववत् // अत्रोच्यते / क्षीरपरमाणूनां तत्रावणकत्वाद् य एवावयवाः क्षीरमारब्धवन्तस्त एव सहकारिविशेषाद्दध्यारभन्ते, लाघवात् / अनुमाने चानुकूलतर्काभावः। दधित्वं यदि पार्थिवपरमाणुवृत्तिजातिः स्यात् पटवृत्ति स्यादिति प्रतिकूलतर्कप्रतिहतत्वं च / न च लाघवोपकार्यमानाभावः / - प्रकाशिका दथ्यनारभ्यत्वे तत्रैव व्यभिचार इत्याशयेनाह / स्वत इति / क्षीरपरमाणूनामिति / तथाच दधिधणुकं ससमवायिकारणकं भावकार्यत्वादित्यनुमानं ला. घवंसहकृतं दुग्धोपादानोपादेयत्वं विषयीकरोतीति भावः।अनुमाने चेति / पूर्वपक्षानुमान इत्यर्थः / दधित्वं यदीति / अत्र जलत्वे व्यभिचार इति पार्थिवपदम् , स्वमते दुग्धत्वादौ व्यभिचार इति परमपदम् , घटत्वे व्यभिचार इति अणुपदम् , परमाणुपरिमाणे व्यभिच र इति जातिपदम् / नच तर्कोऽप्ययं शिथिलमूल इति वाच्यम् / परमाणूनाम् हि परम्परया पटारम्भे पार्थिवपरमाणुत्वमेव प्रयोजक पटप्रयोजकजातेस्तत्राभावात् , तत्स्वीकारे तज्जातेय॑णुकवृत्तिजातित्वापत्तेः / तथासति चावयविवृत्तिजातित्वेन तदारब्धपरम्परावृत्तित्वे पटवृत्तित्वापत्तेः / तत्र चानुपलाभंगाधः / एवं च पार्थिवपरमाणुत्वस्यैव पटारम्भप्रयोजकत्वे दधित्वाश्रयेण परमाणुनापि नित्येन स्वरूपयोग्येन च कदाचित् पटारम्भेऽवयवावयविवृत्तिजातित्वेन दधित्वस्य पटवृत्तित्वापत्तैरिति भावः / न च द्रव्यत्वसाक्षाद्व्याप्यपार्थिवपरमाणुवृत्तिजातित्वमेव पटवृत्तिताप्रयोजकमिति वाच्यम् / गौरवात् सत्तायाः पटावृत्तित्वप्रसङ्गाच्चेति / तर्कस्य स्वातन्त्र्येणासाधकत्वमित्याशयेनाह / न चेति / मकरन्दः। क्षीरपरमारणूनामिति / अनुमाने पूर्वपक्षानुमाने / दधित्वमिति / जलत्वे ब्यमिचारादाह / पार्थिवेति / स्वमते दुग्धत्वे व्यभिचारादाह / परमाण्विति / परमाणुपरिमाणादौ व्यभिचारादाह, जातिपदम् / न च तादृशद्रव्यत्वसाक्षाद्वयाप्यजातित्वं पटवृत्तित्वप्रयोजकमिति वाच्यम् / साक्षात्वस्य गुरुत्वात् / सत्तायाः पटावृत्तित्वप्रसङ्गाच्च। नन्वेवमप्रयोजकतयाऽस्यैव तर्कस्य शिथिलमूलत्वमिति चेत् / अत्राहुः / न हि परम्परया पटारम्भके परमाणौ दध्यारम्भकपरमाणु तिदधित्ववत्तयाऽपि जातिरङ्गीक्रियते। तस्या अपि पटे प्रत्ययापत्तेः / अवयवावयविवृत्तिजातेरवयविवृत्तित्वनियमात् / तथाचान्यस्यावच्छेदकस्याभावात् पृथिवीपरमाणुत्वादिकमेव तत्तवथणुकजनकतावच्छेदकम् / एवञ्च दधिद्वयणुकाद्याश्रयपरमाणवोऽपि तत्र स्वरूपयोग्या इति नित्यस्य सहकार्यवश्यम्भावे तैरपि पटजनने पूर्वोक्तयुक्त्या तज्जातेः पटवृत्तिताऽऽपत्तिरित्यत्र तात्पर्यमि टिप्पणी। व्यजकाभावस्योपाधित्वादिति / स्वव्यम्जकाभाववत्परमाणुकत्वे तात्पर्यम् , व्यञ्जकाभावश्च व्यजकतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकः। विशेष्यत्वविशेषसम्बन्धेन पटत्वादिप्रत्यक्षं प्रतिसंस्थानविशेषादेः स्वसमवायिसमवेतत्वविशेषेण व्यञ्जकत्वात् / तेन च तस्य परमाणावसम्भवाद् दधि लम्यनकस्य रसविशेषस्य समवायेन परमाणौ सम्भवादिति भावः /